नारायणास्त्र


महानारायणास्त्रम्
रामानुजवैष्णव सम्प्रदाय के चक्राङ्कित वैष्णवों हेतु ॥
पूर्णशुद्ध सात्विक तपोनिष्ठ वैष्णव ब्राह्मणों द्वारा मात्र प्रयोग ॥
देविदेवि महादेवि करुणाकरपुङ्गवि ।
कथितान्यागमोक्तानि महास्त्राणि त्वयानघे ॥ १॥
गारुडं वारुणं सार्षं पार्वतं बलिदैवतम् ।
अघोराख्यं महास्त्रञ्च तथा पाशुपतं शुभम् ॥ २॥
नारायणाख्यमस्त्रं च कथय स्वानुकम्पया ।
न कथ्यते महामातर्विमुञ्चामि तदा तनुम् ॥ ३॥
देव्युवाच
शृणु भैरव यत्नेन कथयामि तवाग्रतः ।
कस्याग्रे न कथितं मन्त्रं नारायणात्मकम् ॥ ४॥
महाभये महोत्पाते महाविघ्नेषु सङ्कटे ।
धारणादस्त्रराजस्य भयं सर्वं निवर्तते ॥ ५॥
पूर्वं यद्ब्रह्मणे प्रोक्तं विष्णुना प्रभविष्णुना ।
सृष्टिकाले महाविघ्नपराभूताय भैरव ॥ ६॥
तदहं सम्प्रवक्ष्यामि महाशत्रुनिबर्हणम् ।
महाविघ्नोपशमनं महासङ्कटनाशनम् ॥ ७॥
ॐ अस्य श्रीनारायणास्त्रमहामन्त्रस्य आदिसृष्टिकर्ता ब्रह्माऋषिः,
जगती छन्दः, त्रिपादविभूतिनायकः श्रीमन्नारायणो देवता,
ॐ बीजम्, ह्रीं शक्तिः, ॐ नमःकीलकम्, मम सर्वारिष्टशान्तये
सकलाभीष्टसिद्ध्यर्थे च नारायणास्त्रमहामन्त्रपाठे विनियोगः ॥
अथ ध्यानं
ध्यायेत्सागरमध्यस्थं सहस्रादित्यतेजसम् ।
अनन्तशक्तिसंयुक्तं नारायणमनामयम् ॥ ८॥
ॐ ऐं ह्रीं श्रीं नमो भगवते नारायण सकल जगदुत्पत्ति-
स्थिति लयकारणाय अमिततेजसे अतुलबलपराक्रमाय
महाविभूतिपतये ह्रीं ह्रीं ह्रैं ह्रैं ह्रः सकलनिगमगोचर
गुणगणाय महासम्राज्यविभूतिविभूषिताय
ध्वजातपत्रचामरव्यजनकुण्डलकरकटिसूत्राङ्गदादि हार-
वलयमणिनूपुराद्यनेकमणिभूषणभूषिताय सहस्रशिरसे
सहस्राक्षाय सहस्रभुजाय सहस्रपादाय शङ्खचक्रगदापद्मधराय
शार्ङ्गधर शरनन्दकखड्गचर्मखेटकपरशुपाशहलमुसल-
तोमरभुशुण्डीपाशाङ्कुशकुन्तशतघ्नीपरशुवराभय
विभूषितभुजसहस्राय बलिरञ्जितब्रह्माण्डमण्डलाय अनन्त-
नागेन्द्रसिंहासनाधिष्ठिताय सनकाद्यनेकमुनिगणसिद्धचारण-
विद्याधरकिन्नरगन्धर्वयक्षरक्षोरगगीर्वाणस्वर्गीतगुणार्णवाय
सकल जगद्भयङ्कराय भूतप्रेतपिशाचयक्षराक्षसडाकिनीशाकिनी
वैतालमारीचब्रह्मराक्षसकूष्माण्डवैनायकमातृगणानुन्मथय-मथय
क्षयं कुरु-कुरु कुष्टदुष्टज्वरदाहापस्मारीप्रमेहविस्फोटक-
ब्रह्मापस्मारादि सर्वराजरोगान् विहिंसनाय ममाभयं कुरु-कुरु
मम शत्रूनुच्चाटय-उच्चाटय व्याधिभयं शमय-शमय
चौरभयं नाशय- नाशय महास्त्राणि स्तम्भय-स्तम्भय
मम दुष्टग्रहान् भीषय-भीषय मम द्वेषकरान् मोहय-मोहय
स्तम्भय-स्तम्भय कम्पय-कम्पय पातय-पातय बन्धय-बन्धय
भूतग्रहान् बन्धय-बन्धय बालग्रहान् शमय-शमय यक्षपक्ष-
ज्वालातमोहारग्रहान् ज्वल-ज्वल- प्रज्ज्वल-प्रज्ज्वल मथ-मथ
पच-पच दह-दह उन्मथयोन्मथय मम शत्रून् विनाशय-विनाशय
त्रोटय-त्रोटय निगडपाशादीन् मोचय-मोचय वद्दिवातसुपर्णनाग-
पर्वतपर्जन्यादि दुष्टशस्त्रास्त्रजन्यबन्धनानि शमय-शमय
शत्रुकृतमहापीडां शमय-शमय दुष्टरोगपीडां शमय-शमय
दुष्कृतपीडां शमय-शमय भूत-प्रेत-पिशाचादि पीडां
शमय-शमय दुष्कर्मजन्यनरकभयात् मामुद्धरोद्धर
मां सञ्जीवय-सञ्जीवय महामृत्युभ्यां मां मोचय-मोचय
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः खं खां खैं फट्
हुँ हुँ हुँ फट्-फट् ठःठःठः ह्रीं ह्रीं ह्रीं हुँ हुँ हुँ
एहि-एहि ज्वल-ज्वल प्रज्वल-प्रज्वल हुँ फट् स्वाहा
ॐ नमोनारायणाय नमस्ते नमस्ते नमस्ते ॥ ९॥
देव्युवाच
इत्येतत्पपरमं गुह्यमस्त्रं नारायणात्मकम् ।
त्वमेव संयतो भूत्वा धारयस्व निरन्तरम् ॥ १०॥
महाभये महोत्पाते महाशत्रुसमागमे ।
रणे दुर्गे विवादे च पाते चौराग्निजे भये ॥ ११॥
विषसर्पभये घोरे मारीराजभये तथा ।
स्मरणान्मन्त्रराजस्य भयं सर्वं निवर्तते ॥ १२॥
एकवारं पठेद्यो वै व्याधिभूतादिनाशनम् ।
एकवारं पठेद्यो वै दशविद्याफलं लभेत् ॥ १३॥
शतावर्तनमात्रेण सर्वशत्रुक्षयो भवेत् ।
सहस्रावर्तनेनैव ग्रहपीडा निवर्तते ॥ १४॥
अयुतावर्तनेनैव राज्यलक्ष्मी स्थिरा भवेत् ।
पञ्जविंशति सहस्रेण पञ्जतत्त्वाधिपो भवेत् ॥ १५॥
लक्षावर्तनमात्रेण लक्ष्मीपतिः सम्भवेत् ।
नदीतीरे पर्वताग्रे पिप्पलाग्रे शुभालये ॥ १६॥
गोष्ठे वृन्दावने रम्ये पठन्मन्त्रमनूत्तमम् ।
त्रिलोहवेष्ठितं चैतद्धारयेद्दक्षिणे करे ॥ १७॥
सङ्ग्रामे शस्त्रसम्पाते शस्त्रधारानिबन्धनम् ।
त्वमपि श्रद्धया मन्त्रं धारयस्व निरन्तरम् ॥ १८॥
सुरासुरैरजेयश्च भविष्यसि न संशयः ।
तव स्नेहान्मयाऽऽख्यातं मन्त्रराजमनूत्तमम् ॥ १९॥
गोपायस्व प्रयत्नेन गुह्याद्गुह्यन्तरं परम् ।
सुशिष्याय प्रदातव्यं महाविद्याप्रजापिने ॥ २०॥
इति महानारायणास्त्रप्रयोगः ।
जय श्री राधे
जय श्री राधे 

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

ब्रह्म संहिता