दत्त वज्र कवच व स्तोत्र

श्रीदत्तात्रेयवज्रकवचम् ॥
          श्रीगणेशाय नमः ।
        श्रीदत्तात्रेयाय नमः ।
ऋषय ऊचुः ।
कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे ।
धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥
व्यास उवाच ।
शृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् ।
सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥२॥
गौरीशृङ्गे हिमवतः कल्पवृक्षोपशोभितम् ।
दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥ ३॥
रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् ।
मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ ४॥
श्रीदेव्युवाच ।
देवदेव महादेव लोकशङ्कर शङ्कर ।
मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नशः ॥ ५॥
तन्त्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै ।
इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥ ६॥
इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः ।
करेणामृज्य सन्तोषात्पार्वतीं प्रत्यभाषत ॥ ७॥
मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।
इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्करः ॥ ८॥
ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् ।
क्वचित् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ॥ ९॥
तत्र व्याहर्तुमायान्तं भिल्लं परशुधारिणम् ।
वर्ध्यमानं महाव्याघ्रं नखदण्ष्ट्राभिरावृतम् ॥ १०॥
अतीव चित्रचारित्र्यं वज्रकायसमायुतम् ।
अप्रयत्नमनायासमखिलं सुखमास्थितम् ॥ ११॥
पलायन्तं मृगं पश्चाद्व्याघ्रो भीत्या पलायितः ।
एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम् ॥ १२॥
श्रीपार्वत्युवाच ।
किमाश्चर्यं किमाश्चर्यमग्रे शम्भो निरीक्ष्यताम् ।
इत्युक्तः स ततः शम्भुर्दृष्ट्वा प्राह पुराणवित् ॥ १३॥
श्रीशङ्कर उवाच ।
गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् ।
अदृष्टपूर्वमस्माभिर्नास्ति किञ्चन्न कुत्रचित् ॥ १४॥
मया सम्यक् समासेन वक्ष्यते शृणु पार्वति ।
अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ १५॥
समित्कुशप्रसूनानि कन्दमूलफलादिकम् ।
प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥ १६॥
प्रिये पूर्वं मुनीन्द्रेभ्यः प्रयच्छति न वाञ्छति ।
तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥ १७॥
दलादनो महायोगी वसन्नेव निजाश्रमे ।
कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगम्बरम् ॥ १८॥
दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् ।
तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेयः समुत्थितः ॥ १९॥
तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनिः ।
सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम् ॥ २०॥
मयोपहूतः सम्प्राप्तो दत्तात्रेय महामुने ।
स्मर्तृगामी त्वमित्येतत् किंवदन्ती परीक्षितुम् ॥ २१॥
मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे ।
दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥ २२॥
अभक्त्या वा सुभक्त्या वा यः स्मरेन्मामनन्यधीः ।
तदानीं तमुपागत्य ददामि तदभीप्सितम् ॥ २३॥
दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् ।
यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥ २४॥
दत्तात्रेयं मुनिः प्राह मया किमपि नोच्यते ।
त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव ॥ २५॥
श्रीदत्तात्रेय उवाच ।
ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् ।
तथ्येत्यङ्गीकृतवते दलादनमुनये मुनिः ॥ २६॥
स्ववज्रकवचं प्राह ऋषिच्छन्दःपुरःसरम् ।
न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥ २७॥
अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य,
किरातरूपी महारुद्र ऋषिः, अनुष्टुप् छन्दः,
श्रीदत्तात्रेयो देवता, द्रां बीजं, आं शक्तिः,
क्रौं कीलकं, ॐ आत्मने नमः । ॐ द्रीं मनसे नमः ।
ॐ आं द्रीं श्रीं सौः ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः ।
श्रीदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ॐ द्रां अङ्गुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ।
ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ।
अथ ध्यानम् ।
जददङ्कुरकन्दाय सच्चिदानन्दमूर्तये ।
दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने ॥
कदा योगी कदा भोगी कदा नग्नः पिशाचवत् ।
दत्तात्रेयो हरिः साक्षाद्भुक्तिमुक्तिप्रदायकः ॥
वाराणसीपुरस्नायी कोल्हापुरजपादरः ।
माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर ॥
इन्द्रनीलसमाकारश्चन्द्रकान्तिसमद्युतिः ।
वैडुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधरः ॥
स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिकः ।
भ्रूवक्षःश्मश्रुनीलाङ्कः सशाङ्कसदृशाननः ॥
हासनिर्जितनीहारः कण्ठनिर्जितकम्बुकः ।
मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥
विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः ।
पृथुलश्रोणिललितो विशालजघनस्थलः ॥
रम्भास्तम्भोपमानोरुर्जानुपूर्वैकजङ्घकः ।
गूढगुल्फः कूर्मपृष्ठोलसत्पादोषरिस्थलः ॥
रक्तारविन्दसदृशरमणीयपदाधरः ।
चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ॥
ज्ञानोपदेशनीरतो विपद्धरणदीक्षितः ।
सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥
वामहस्तेन वरदो दक्षिणेनाभयङ्करः ।
बालोन्मत्तपिशाचीभिः क्वचिद्युक्तः परीक्षितः ॥
त्यागी भोगी महायोगी नित्यानन्दो निरञ्जनः ।
सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥
भस्मोद्धूलितसर्वाङ्गो महापातकनाशनः ।
भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥
एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् ।
मामेव पश्यन्सर्वत्र स मया सह सङ्चरेत् ॥
दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् ।
पद्मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरणेन नित्यम् ॥
(अथ पञ्चोपचारैः संपूज्य ॐ द्रां इति अष्टोत्तरशतवारं जपेत्)
ॐ द्रां ।
ॐ दत्तात्रेयः शिरः पातु सहस्राब्जेषु संस्थितः ।
भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यगः ॥ २८॥
कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः ।
ज्योतिरूपोऽक्षिणी पातु पातु शब्दात्मकः श्रुती ॥ २९॥
नासिकां पातु गन्धात्मा मुखं पातु रसात्मकः ।
जिह्वां वेदात्मकः पातु दन्तोष्ठौ पातु धार्मिकः ॥ ३०॥
कपोलावत्रिभूः पातु पात्वशेषं ममात्ववित् ।
स्वरात्मा षोडशाराब्जस्थितः स्वात्माऽवताद्गलम् ॥ ३१॥
स्कन्धौ चन्द्रानुजः पातु भुजौ पातु कृतादिभूः ।
जत्रुणी शत्रुजित् पातु पातु वक्षःस्थलं हरिः ॥ ३२॥
कादिठान्तद्वादशारपद्मगो मरुदात्मकः ।
योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ ३३॥
पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः ।
हठयोगादियोगज्ञः कुक्षी पातु कृपानिधिः ॥ ३४॥
डकारादिफकारान्तदशारसरसीरुहे ।
नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ ३५॥
वह्नितत्वमयो योगी रक्षतान्मणिपूरकम् ।
कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु ॥ ३६॥
वकारादिलकारान्तषट्पत्राम्बुजबोधकः ।
जलतत्वमयो योगी स्वाधिष्ठानं ममावतु ॥ ३७॥
सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु ।
वादिसान्तचतुष्पत्रसरोरुहनिबोधकः ॥ ३८॥
मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही ।
पृष्ठं च सर्वतः पातु जान्युन्यस्तकराम्बुजः ॥ ३९॥
जङ्घे पात्ववधूतेन्द्रः पात्वङ्घ्री तीर्थपावनः ।
सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशवः ॥ ४०॥
चर्म चर्माम्बरः पातु रक्तं भक्तिप्रियोऽवतु ।
मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥ ४१॥
अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् ।
शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥ ४२॥
मनोबुद्धिमहङ्कारं हृषीकेशात्मकोऽवतु ।
कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ ४३॥
बन्धून् बन्धूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् ।
गृहारामधनक्षेत्रपुत्रादीञ्छङ्करोऽवतु ॥ ४४॥
भार्यां प्रकृतिवित् पातु पश्वादीन्पातु शार्ङ्गभृत् ।
प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्करः ॥ ४५॥
सुखं चन्द्रात्मकः पातु दुःखात् पातु पुरान्तकः ।
पशून्पशूपतिः पातु भूतिं भूतेश्वरो मम ॥ ४६॥
प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः ।
याम्यां धर्मात्मकः पातु नैऋत्यां सर्ववैरिहृत् ॥ ४७॥
वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु ।
कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥ ४८॥
उर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः ।
ॐ द्रां ।
मन्त्रजपः ।
ॐ द्रां अङ्गुष्ठाभ्यां नमः ।
ॐ द्रीं तर्जनीभ्यां नमः ।
ॐ द्रूं मध्यमाभ्यां नमः ।
ॐ द्रैं अनामिकाभ्यां नमः ।
ॐ द्रौं कनिष्ठिकाभ्यां नमः ।
ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादि न्यासः ।
ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ।
रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वरः ॥ ४९॥
एतन्मे वज्रकवचं यः पठेच्छृणुयादपि ।
वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम् ॥ ५०॥
त्यागी भोगी महायोगी सुखदुःखविवर्जितः ।
सर्वत्रसिद्धसङ्कल्पो जीवन्मुक्तोऽद्य वर्तते ॥ ५२॥
इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बरः ।
दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥ ५३॥
भिल्लो दूरश्रवा नाम तदानीं श्रुतवादिनम् ।
सकृच्छ्रवणमात्रेण वज्राङ्गोऽभवदप्यसौ ॥ ५४॥
इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिनः ।
श्रुत्वाशेषं शम्भुमुखात् पुनरप्याह पार्वती ॥ ५५॥
पार्वत्युवाच ।
एतत्कवचमाहात्म्यं वद विस्तरतो मम ।
कुत्र केन कदा जाप्यं किं यजाप्यं कथं कथम् ॥ ५६॥
उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम् ।
श्रीशिव उवाच ।
श्रुणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥ ५७॥
धर्मार्थकाममोक्षाणामिदमेव परायणम् ।
हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम् ॥ ५८॥
पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम् ।
वेदशास्त्रादिविद्यानां निधानं परमं हि तत् ॥ ५९॥
सङ्गीतशास्त्रसाहित्यसत्कवित्वविधायकम् ।
बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम् ॥ ६०॥
सर्वसन्तोषकरणं सर्वदुःखनिवारणम् ।
शत्रु संहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥ ६१॥
अष्टसंख्या महारोगाः सन्निपातास्त्रयोदश ।
षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥ ६२॥
अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि ।
अशीतिर्वातरोगाश्च चत्वारिशत्तु पैत्तिकाः ॥ ६३॥
विंशतिश्लेष्मरोगाश्च क्षयचातुर्थिकादयः ।
मन्त्रयन्त्रकुयोगाद्याः कल्पतन्त्रादिनिर्मिताः ॥ ६४॥
ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्भवाः ।
सङ्गजाः देशकालस्थास्तापत्रयसमुत्थिताः ॥ ६५॥
नवग्रहसमुद्भूता महापातकसम्भवाः ।
सर्वे रोगाः प्रणश्यन्ति सहस्रावर्तनाद्ध्रुवम् ॥ ६६॥
अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत् ।
अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥ ६७॥
अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।
सहस्रादयुतादर्वाक् सर्वकार्याणि साधयेत् ॥ ६८॥
लक्षावृत्या कार्यसिद्धिर्भवेत्येव न संशयः ।
विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः ॥ ६९॥
कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् ।
औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते ॥ ७०॥
श्रीवक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि ।
ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके ॥ ७१॥
ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः ।
धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ॥ ७२॥
देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ।
नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ॥ ७३॥
युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ।
कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ॥ ७४॥
ज्वरापस्मारकुष्ठादितापज्वरनिवारणम् ।
यत्र यत्स्यात्स्थिरं यद्यत्प्रसन्नं तन्निवर्तते ॥ ७५॥
तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ।
इत्युक्त्वान् च शिवो गौर्ये रहस्यं परमं शुभं ॥ ७६॥
यः पठेत् वज्रकवचं दत्तात्रेयोसमो भवेत् ।
एवं शिवेन कथितं हिमवत्सुतायै प्रोक्तं ॥ ७७॥
दलादमुनयेऽत्रिसुतेनपूर्वम् यः कोऽपि वज्रकवचं ।
पठतीह लोके दत्तोपमश्चरति योगिवरश्चिरायुः ॥ ७८॥
॥ इति श्रीरुद्रयामले हिमवत्खण्डे उमामहेश्वरसंवादे
श्रीदत्तात्रेयवज्रकवचस्तोत्रं सम्पूर्णम् ॥
जय श्री राधे

॥ श्रीदत्तात्रेय अष्टचक्रबीजस्तोत्रम् ॥
दिगंबरं भस्मसुगन्धलेपनं
चक्रं त्रिशूलं डमरुं गदां च ।
पद्मासनस्थं ऋषिदेववन्दितं
दत्तात्रेयध्यानमभीष्टसिद्धिदम् ॥ १॥
मूलाधारे वारिजपद्मे सचतुष्के
वंशंषंसं वर्णविशालैः सुविशालैः ।
रक्तं वर्णं श्रीभगवतं गणनाथं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ २॥
स्वाधिष्ठाने षट्दलपद्मे तनुलिंगे
बालान्तैस्तद्वर्णविशालैः सुविशालैः ।
पीतं वर्णं वाक्पतिरूपं द्रुहिणं तं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ३॥
नाभौ पद्मे पत्रदशांके डफवर्णे
लक्ष्मीकान्तं गरूढारूढं मणिपूरे ।
नीलवर्णं निर्गुणरूपं निगमाक्षं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ४॥
हृत्पद्मांते द्वादशपत्रे कठवर्णे
अनाहतांते वृषभारूढं शिवरूपम् ।
सर्गस्थित्यंतां कुर्वाणं धवलांगं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ५ ॥
कंठस्थाने चक्रविशुद्धे कमलान्ते
चंद्राकारे षोडशपत्रे स्वरवर्णे
मायाधीशं जीवशिवं तं भगवंतं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ६॥
आज्ञाचक्रे भृकुटिस्थाने द्विदलान्ते
हं क्षं बीजं ज्ञानसमुद्रं गुरूमूर्तिं
विद्युत्वर्णं ज्ञानमयं तं निटिलाक्षं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ७॥
मूर्ध्निस्थाने वारिजपद्मे शशिबीजं
शुभ्रं वर्णं पत्रसहस्रे ललनाख्ये
हं बीजाख्यं वर्णसहस्रं तूर्यांतं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ८॥
ब्रह्मानन्दं ब्रह्ममुकुन्दं भगवन्तं
ब्रह्मज्ञानं ज्ञानमयं तं स्वयमेव
परमात्मानं ब्रह्ममुनीद्रं भसिताङ्गं
दत्तात्रेयं श्रीगुरूमूर्तिं प्रणतोऽस्मि ॥ ९॥

जय श्री राधे
जय श्री राधे ।।

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता