हनुमान लघु पूजा

श्रीहनुमतः लघुपूजाक्रमः ॥
१. ध्यानम् ॥
अतुलितबलधाम स्वर्णशैलाभदेहं
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं
रघुपतिप्रियभक्तं वातजातं नमामि ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः - ध्यायामि ॥
आगच्छ हनुमद्देव त्वं सुवर्चलया सह ।
पूजासमाप्तिपर्यन्तं भव सन्निहितो मुदा ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः - आवाहयामि ।
भीमाग्रज महाप्राज्ञ त्वं ममाभिमुखो भव ।
श्रीरामसेवक श्रीमन् प्रसीद जगतां पते ॥
हे स्वामिन्, स्थिरो भव, वरदो भव, सुमुखो भव, सुप्रसन्नो भव ।
स्थिरासनं कुरु ।
देव देव जगन्नाथ केसरीप्रियनन्दन ।
रत्नसिंहासनं तुभ्यं ददामि हनुमत्प्रभो ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
नवरत्नखचितस्वर्णसिंहासनं समर्पयामि ॥
योगिध्येयाङ्घ्रिपद्माय जगतां पतये नमः ।
पाद्यं मयार्पितं देव गृहाण पुरुषोत्तम ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
पादयोः पाद्यं समर्पयामि ॥
लक्ष्मणप्राणसंरक्ष सीताशोकविनाशन ।
गृहाणार्घ्यं मया दत्तं अञ्जनाप्रियनन्दन ।
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
हस्तयोः अर्घ्यं समर्पयामि ॥
वालाग्रसेतुबन्धाय शताननवधाय च ।
तुभ्यमाचमनं दत्तं प्रतिगृह्णीष्व मारुते ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
मुखे आचमनीयं समर्पयामि ॥
अर्जुनध्वजसंवास दशाननमदापह ।
मधुपर्कं प्रदास्यामि हनुमन् प्रतिगृह्यताम् ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
मधुपर्कं समर्पयापि ॥
गङ्गादिसर्वतीर्थेभ्यः समानीतैर्नवोदकैः ।
भवन्तं स्नपयिष्यामि कपिनायक गृह्यताम् ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
शुद्धोदकस्नानं समर्पयामि ॥
पीताम्बरमिदं तुभ्यं तप्तहाटकसन्निभम् ।
दास्यामि वानरश्रेष्ठ सङ्गृहाण नमोऽस्तु ते ॥
उत्तरीयं तु दास्यमि संसारोत्तारकारण ।
गृहाण च मया प्रीत्या दत्तं धत्स्व यथाविधि ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
वस्त्रं समर्पयामि ।
भूषणानि महार्हाणि किरीटप्रमुखान्यहम् ।
तुभ्यं दास्यामि सर्वेश गृहाण कपिनायक ।
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
आभरणानि समर्पयामि ॥
कस्तूरीकुङ्कुमामिश्रं कर्पूरागरुवासितम् ।
श्रीचन्दनं तु दास्यामि गृह्यतां हनुमत्प्रभो ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
गन्धान्धारयामि ॥
सुगन्धीनि सुरूपाणि वन्यानि विविधानि च ।
चम्पकादीनि पुष्पाणि कमलान्युत्पलानि च ॥
तुलसीदलबिल्वानि मनसा कल्पितानि च ।
गृहाण हनुमद्देव प्रणतोऽस्मि पदाम्बुजे ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
पुष्पाणि समर्पयामि ॥
शालीयानक्षतान् रम्यान् पद्मरागसमप्रभान् ।
अखण्डान् खण्डितध्वान्त स्वीकुरुष्व दयानिधे ॥
श्रीसीतासमेतश्रीरामपादसेवाधुरन्धराय हनुमते नमः ।
अक्षतान्समर्पयामि ॥
अथ अङ्गपूजा ॥
मारुतये नमः । पादौ पूजयामि ।
सुग्रीवसखाय नमः । गुल्फौ पूजयामि ।
अङ्गदमित्राय नमः । जङ्घे पूजयामि ।
रामदासाय नमः । ऊरू पूजयामि ।
अक्षघ्नाय नमः । कटिं पूजयामि ।
लङ्कादहनाय नमः । वालं पूजयामि ।
सञ्जीवननगाहर्त्रे नमः । स्कन्धौ पूजयामि ।
सौमित्रिप्राणदात्रे नमः । वक्षःस्थलं पूजयामि ।
कुण्ठितदशकण्ठाय नमः । कण्ठं पूजयामि ।
रामाभिषेककारिणे नमः । हस्तौ पूजयामि ।
मन्त्ररचितरामायणाय नमः । वक्त्रं पूजयामि ।
प्रसन्नवदनाय नमः । वदनं पूजयामि ।
पिङ्गलनेत्राय नमः । नेत्रे पूजयामि ।
श्रुतिपरायणाय नमः । श्रोत्रे पूजयामि ।
ऊर्ध्वपुण्ड्रधारिणे नमः । ललाटं पूजयामि ।
मणिकण्ठमालिकाय नमः । शिरः पूजयामि ।
सर्वाभीष्टप्रदाय नमः । सर्वाण्यङ्गनि पूजयामि ।
अथ अष्टोत्तरशतनामपूजा ॥
ॐ आञ्जनेयाय नमः । महावीराय नमः । तत्त्वज्ञानप्रदाय नमः ।
सीतादेवीमुद्राप्रदायकाय नमः । सर्वग्रहविनाशिने नमः ।
भीमसेनसहायकृते नमः । परविद्यापरीहाराय नमः ।
परशौर्यविनाशकाय नमः । परयन्त्रनिराकर्त्रे नमः ।
परमन्त्रप्रभेदकाय नमः । सर्वदुःखहराय नमः ।
सर्वलोकचारिणे नमः । मनोजवाय नमः ।
पारिजातद्रुममूलस्थाय नमः । अशोकवनिकाच्छेत्रे नमः ।
सर्वमायाविभञ्जकाय नमः । सर्वबन्धविमोक्त्रे नमः ।
रक्षोविध्वंसकारकाय नमः । सर्वयन्त्रात्मकाय नमः ।
कपीश्वराय नमः । २०
ॐ महाकायाय नमः । सर्वरोगहराय नमः ।
सर्वविद्यासम्पत्प्रदायकाय नमः । कपिसेनानायकाय नमः ।
भविष्यच्चतुराननाय नमः । कुमारब्रह्मचारिणे नमः ।
रत्नकुण्डलदीप्तिमते नमः । सञ्चलद्वालसन्नद्धलम्बमानाय नमः ।
हनुमते नमः । मारुतात्मजाय नमः ।
महाबलपराक्रमाय नमः । कारागृहविमोक्त्रे नमः ।
शृङ्खलाबन्धमोचकाय नमः । सागरोत्तारकाय नमः ।
प्राज्ञाय नमः । रामदूताय नमः ।
प्रतापवते नमः । वानराय नमः ।
लङ्किणीभञ्जकाय नमः । श्रीमते नमः । ४०
ॐ सर्वमन्त्रस्वरूपिणे नमः । सर्वतन्त्रस्वरूपिणे नमः ।
गन्धमादनशैलस्थाय नमः । लङ्कापुरविदाहकाय नमः ।
सुग्रीवसचिवाय नमः । धीराय नमः ।
शूराय नमः । दैत्यकुलान्तकाय नमः ।
सुरार्चिताय नमः । महातेजसे नमः ।
प्रभवे नमः । बलसिद्धिकराय नमः ।
केसरीसुताय नमः । शिखोज्ज्वलाय नमः ।
सीताशोकनिवारकाय नमः । अञ्जनागर्भसम्म्भूताय नमः ।
गन्धर्वविद्यातत्त्वज्ञाय नमः । लक्ष्मणप्राणदात्रे नमः ।
वज्रकायाय नमः । महाद्युतये नमः । ६०
ॐ चिरजीविने नमः । रामभक्ताय नमः ।
दैत्यकार्यविघातकाय नमः । अक्षहन्त्रे नमः ।
काञ्चनाभाय नमः । पञ्चवक्त्राय नमः ।
महातपसे नमः । विजितेन्द्रियाय नमः ।
सिंहिकाप्राणभञ्जनाय नमः । महारावणमर्दनाय नमः ।
स्फटिकाभाय नमः । वागधीशाय नमः ।
नवव्याकरणपण्डिताय नमः । चतुर्बाहवे नमः ।
दीनबन्धवे नमः । महात्मने नमः ।
भक्तवत्सलाय नमः । रामचूडामणिप्रदाय नमः ।
कामरूपिणे नमः । पिङ्गलाक्षाय नमः । ८०
ॐ वार्धिमैनाकपूजिताय नमः । कबलीकृतमार्तण्डमण्डलाय नमः ।
बालार्कसदृशाननाय नमः । विभीषणप्रियकराय नमः ।
दशग्रीवकुलान्तकाय नमः । दान्ताय नमः ।
शान्ताय नमः । प्रसन्नात्मने नमः ।
शतकण्ठमदापहर्त्रे नमः । योगिने नमः ।
रामकथालोलाय नमः । सीतान्वेषणपण्डिताय नमः ।
वज्रदंष्ट्राय नमः । वज्रनखाय नमः ।
रुद्रवीर्यसमुद्भवाय नमः । सञ्जीवननगाहर्त्रे नमः ।
शुचये नमः । वाग्मिने नमः ।
दृढव्रताय नमः । कालनेमिप्रमथनाय नमः । १००
ॐ हरिमर्कटमर्कटाय नमः ।
इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः ।
पार्थध्वजाग्रसंवासिने नमः । शरपञ्जरभेदकाय नमः ।
लोकपूज्याय नमः । जाम्बवत्प्रीतिवर्धनाय नमः । मारुतये नमः ।
धूपमाघ्रापयामि । दीपं दर्शयामि । धूपदीपानन्तरं आचमनीयं
समर्पयामि । नैवेद्यं समर्पयामि । मध्ये मध्ये पानीयं समर्पयामि ।
उत्तरापोऽशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि । शुद्धाचमनीयं समर्पयामि । नीराजनं समर्पयामि । नीराजनानन्तरं
आचमनीयं समर्पयामि । सुवर्णदिव्यमन्त्रपुष्पं समर्पयामि ।
प्रदक्षिणनमस्कारान् समर्पयामि । श्रीहनुमदर्पणमस्तु ।
जय श्री राधे ।

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता