कुलकुण्ली कवच

॥ श्रीकुलकुण्डलीकवचस्तोत्रम् अथवा कन्दवासिनीकवचम् ॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ श्रीगुरवे नमः ॥
आनन्दभैरवी उवाच ।
अथ वक्ष्ये महादेव कुण्डलीकवचं शुभम् ।
परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् ॥ १॥
यत्कृत्वा योगिनः सर्वे धर्माधर्मप्रदर्शकाः ।
ज्ञानिनो मानिनो धर्मान् विचरन्ति यथामराः ॥ २॥
सिद्धयोऽप्यणिमाद्याश्च करस्थाः सर्वदेवताः ।
एतत्कवचपाठेन देवेन्द्रो योगिराड्भवेत् ॥ ३॥
ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः ।
प्रातःकाले त्रिवारं च मध्याह्ने वारयुग्मकम् ॥ ४॥
सायाह्ने वारमेकन्तु पठेत्कवचमेव च ।
पठेदेवं महायोगी कुण्डलीदर्शनं भवेत् ॥ ५॥
ॐ अस्य श्रीकुलकुण्डलीकवचस्य ब्रह्मेन्द्र ऋषिः ।
गायत्री छन्दः । कुलकुण्डली देवता । सर्वाभीष्टसिद्ध्यर्थे विनियोगः ।
ॐ ईश्वरी जगतां धात्री ललिता सुन्दरी परा ।
कुण्डली कुलरूपा च पातु मां कुलचण्डिका ॥ ६॥
शिरो मे ललिता देवी पातूग्राख्या कपोलकम् ।
ब्रह्ममन्त्रेण पुटिता भ्रूमध्यं पातु मे सदा ॥ ७॥
नेत्रत्रयं महाकाली कालाग्निभक्षिका शिखाम् ।
दन्तावलीं विशालाक्षी ओष्ठमिष्टानुवासिनी ॥ ८॥
कामबीजात्मिका विद्या अधरं पातु मे सदा ।
ऌयुगस्था गण्डयुग्मं माया विश्वा रसप्रिया ॥ ९॥
भुवनेशी कर्णयुग्मं चिबुकं क्रोधकालिका ।
कपिला मे गलं पातु सर्वबीजस्वरूपिणी ॥ १०॥
मातृकावर्णपुटिता कुण्डली कण्ठमेव च ।
हृदयं कालपृथ्वी च कङ्काली पातु मे मुखम् ॥ ११॥
भुजयुग्मं चतुर्वर्गा चण्डदोर्द्दण्डखण्डिनी ।
स्कन्धयुग्मं स्कन्दमाता हालाहलगता मम ॥ १२॥
अङ्गुल्यग्रं कुलानन्दा श्रीविद्या नखमण्डलम् ।
कालिका भुवनेशानी पृष्ठदेशं सदावतु ॥ १३॥
पार्श्वयुग्मं महावीरा वीरासनधराभया ।
पातु मां कुलदर्भस्था नाभिमुदरमम्बिका ॥ १४॥
कटिदेशं पीठसंस्था महामहिषघातिनी ।
लिङ्गस्थानं महामुद्रा भगं मालामनुप्रिया ॥ १५॥
भगीरथप्रिया धूम्रा मूलाधारं गणेश्वरी ।
चतुर्दलं कक्ष्यपूज्या दलाग्रं मे वसुन्धरा ॥ १६॥
शीर्षं राधा रणाख्या च ब्रह्माणी पातु मे मुखम् ।
मेदिनी पातु कमला वाग्देवी पूर्वगं दलम् ॥ १७॥
छेदिनी दक्षिणे पातु पातु चण्डा महातपा ।
चन्द्रघण्टा सदा पातु योगिनी वारुणं दलम् ॥ १८॥
उत्तरस्थं दलं पातु पृथिवीमिन्द्रपालिता ।
चतुष्कोणं कामविद्या ब्रह्मविद्याब्जकोणकम् ॥ १९॥
अष्टशूलं सदा पातु सर्ववाहनवाहना ।
चतुर्भुजा सदा पातु डाकिनी कुलचञ्चला ॥ २०॥
मेढ्रस्था मदनाधारा पातु मे चारुपङ्कजम् ।
स्वयम्भूलिङ्ग चार्वाका कोटराक्षी ममासनम् ॥ २१॥
कदम्बवनमापातु कदम्बवनवासिनी ।
वैष्णवी परमा माया पातु मे वैष्णवं पदम् ॥ २२॥
षड्दलं राकिणी पातु राकिणी कामवासिनी ।
कामेश्वरी कामरूपा श्रीकृष्णं पीतवाससम् ॥ २३॥
वनमाला वनदुर्गा शङ्खं मे शङ्खिनी शिवा ।
चक्रं चक्रेश्वरी पातु कमलाक्षी गदां मम ॥ २४॥
पद्मं मे पद्मगन्धा च पद्ममाला मनोहरा ।
रादिलान्ताक्षरं पातु लाकिनी लोकपालिनी ॥ २५॥   (कादिलान्ताक्षरं)
षड्दले स्थितदेवांश्च पातु कैलासवासिनी । (षड्वर्गस्थितदेवीश्च)
अग्निवर्णा सदा पातु गणं मे परमेश्वरी ॥ २६॥
मणिपूरं सदा पातु मणिमालाविभूषणा ।
दशापत्रं दशवर्णं डादिफान्तं त्रिविक्रमा ॥ २७॥
पातु नीला महाकाली भद्रा भीमा सरस्वती ।
अयोध्यावासिनी देवी महापीठनिवासिनी ॥ २८॥
वाग्भवाद्या महाविद्या कुण्डली कालकुण्डली ।
दशच्छदगतं पातु रुद्रं रुद्रात्मकं मम ॥ २९॥
सूक्ष्मात्सूक्ष्मतरा पातु सूक्ष्मस्थाननिवासिनी ।
राकिणी लोकजननी पातु कूटाक्षरस्थिता ॥ ३०॥
तैजसं पातु नियतं रजकी राजपूजिता ।
विजया कुलबीजस्था तवर्गं तिमिरापहा ॥ ३१॥
मन्त्रात्मिका मणिग्रन्थिभेदिनी पातु सर्वदा ।
गर्भदाता भृगुसुता पातु मां नाभिवासिनी ॥ ३२॥
नन्दिनी पातु सकलं कुण्डली कालकम्पिता ।
हृत्पद्मं पातु कालाख्या धूम्रवर्णा मनोहरा ॥ ३३॥
दलद्वादशवर्णं च भास्करी भावसिद्धिदा ।
पातु मे परमा विद्या कवर्गं कामचारिणी ॥ ३४॥
चवर्गं चारुवसना व्याघ्रास्या टङ्कधारिणी ।
चकारं पातु कृष्णाख्या काकिनीं पातु कालिका ॥ ३५॥
टकुराङ्गी टकारं मे जीवभावा महोदया ।
ईश्वरी पातु विमला मम हृत्पद्मवासिनी ॥ ३६॥
कर्णिकां कालसन्दर्भा योगिनी योगमातरम् ।
इन्द्राणी वारुणी पातु कुलमाला कुलान्तरम् ॥ ३७॥
तारिणी शक्तिमाता च कण्ठवाक्यं सदावतु ।
विप्रचित्ता महोग्रोग्रा प्रभा दीप्ता घनासना ॥ ३८॥
वाक्स्तम्भिनी वज्रदेहा वैदेही वृषवाहिनी ।
उन्मत्तानन्दचित्ता च क्षणोशीशा भगान्तरा ॥ ३९॥
मम षोडशपत्राणि पातु मातृतनुस्थिता । (मातुलसंस्थिता)
सुरान् रक्षतु वेदज्ञा सर्वभाषा च कर्णिकाम् ॥ ४०॥
ईश्वरार्धासनगता प्रपायान्मे सदाशिवम् ।
शाकम्भरी महामाया साकिनी पातु सर्वदा ॥ ४१॥
भवानी भवमाता च पायाद्भ्रूमध्यपङ्कजम् ।
द्विदलं व्रतकामाख्या अष्टाङ्गसिद्धिदायिनी ॥ ४२॥
पातु नासामखिलानन्दा मनोरूपा जगत्प्रिया ।
लकारं लक्षणाक्रान्ता सर्वलक्षणलक्षणा ॥ ४३॥
कृष्णाजिनधरा देवी क्षकारं पातु सर्वदा ।
द्विदलस्थं सर्वदेवं सदा पातु वरानना ॥ ४४॥
बहुरूपा विश्वरूपा हाकिनी पातु संस्थिता ।
हरापरशिवं पातु मानसं पातु पञ्चमी ॥ ४५॥
षट्चक्रस्था सदा पातु षट्चक्रकुलवासिनी ।
अकारादिक्षकारान्ता बिन्दुसर्गसमन्विता ॥ ४६॥
मातृकाणां सदा पातु कुण्डली ज्ञानकुण्डली ।
देवकाली गतिप्रेमा पूर्णा गिरितटं शिवा ॥ ४७॥
उड्डीयानेश्वरी देवी सकलं पातु सर्वदा ।
कैलासपर्वतं पातु कैलासगिरिवासिनी ॥ ४८॥
पातु मे डाकिनीशक्तिर्लाकिनी राकिणी कला ।
साकिनी हाकिनी देवी षट्चक्रादीन् प्रपातु मे ॥ ४९॥
कैलासाख्यं सदा पातु पञ्चाननतनूद्भवा ।
हिरण्यवर्णा रजनी चन्द्रसूर्याग्निभक्षिणी ॥ ५०॥
सहस्रदलपद्मं मे सदा पातु कुलाकुला ।
सहस्रदलपद्मस्था दैवतं पातु खेचरी ॥ ५१॥
काली तारा षोडशाख्या मातङ्गी पद्मवासिनी ।
शशिकोटिगलद्रूपा पातु मे सकलं तमः ॥ ५२॥
वने घोरे जले देशे युद्धे वादे श्मशानके ।
सर्वत्र गमने ज्ञाने सदा मां पातु शैलजा ॥ ५३॥
पर्वते विविधायासे विनाशे पातु कुण्डली ।
पादादिब्रह्मरन्ध्रान्तं सर्वाकाशं सुरेश्वरी ॥ ५४॥
सदा पातु सर्वविद्या सर्वज्ञानं सदा मम ।
नवलक्षमहाविद्या दशदिक्षु प्रपातु माम् ॥ ५५॥
इत्येतत्कवचं देवि कुण्डलिन्याः प्रसिद्धिदम् ।
ये पठन्ति ध्यानयोगे योगमार्गव्यवस्थिताः ॥ ५६॥
ते यान्ति मुक्तिपदवीमैहिके नात्र संशयः ।
मूलपद्मे मनोयोगं कृत्त्वा हृदासनस्थितः ॥ ५७॥
मन्त्रं ध्यायेत्कुण्डलिनीं मूलपद्मप्रकाशिनीम् ।
धर्योदयां दयारुढामाकाशस्थानवासिनीम् ॥ ५८॥
अमृतानन्दरसिकां विकलां सुकलां शिताम् ।
अजितां रक्तरहितां विशक्तां रक्तविग्रहाम् ॥ ५९॥
रक्तनेत्रां कुलक्षिप्तां ज्ञानाञ्जनजयोज्ज्वलाम् ।
विश्वाकारां मनोरूपां मूले ध्यात्त्वा प्रपूजयेत् ॥ ६०॥
यो योगी कुरुते एवं स सिद्धो नात्र संशयः ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ ६१॥
राज्यं श्रियमवाप्नोति राज्यहीनः पठेद्यदि ।
पुत्रहीनो लभेत्पुत्रं योगहीनो भवेद्वशी ॥ ६२॥
कवचं धारयेद्यस्तु शिखायां दक्षिणे भुजे ।
वामा वामकरे धृत्त्वा सर्वाभीष्टमवाप्नुयात् ॥ ६३॥
स्वर्णे रौप्ये तथा ताम्रे स्थापयित्त्वा प्रपूजयेत् ।
सर्वदेशे सर्वकाले पठित्वा सिद्धिमाप्नुयात् ॥ ६४॥
स भूयात्कुण्डलीपुत्रो नात्र कार्या विचारणा ॥ ६५॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिविद्याप्रकरणे
षट्चक्रप्रकाशे भैरवीभैरवसंवादे कन्दवासिनीकवचं
अथवा कुलकुण्डलिनीकवचं सम्पूर्णम् ॥
जय श्री राधे
जय श्री राधे 

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता