कपिलसूत्र-साँख्य योग

साङ्ख्यसूत्रविवरणम् ॥
श्रीकपिलाय नमः ।
प्रकृतिं पुरुषं नत्वा सांख्यसूत्रे विधीयते ।
संक्षेपतो विवरणमविवेकापनुत्तये ॥
इह खलु भगवान् कपिलो मुनिरासुरयेऽनुकम्पया
पञ्चविंशतितत्त्वान्युपदिश्य सूत्रयामास । अष्टौ प्रकृतय इत्यादि ।
काः पुनस्ता इत्युच्यन्ते । प्रधानं महानहंकारस्तन्मात्राणि च ।
प्रधानं प्रकृतिरव्यक्तमव्याकृतं चेत्यनर्थान्तरम् । महान्
महत्तत्वं बुद्धिरध्यवसायलक्षणम् । अहंकारोऽभिमानलक्षणो
वैकृतिकस्तैजसो भूतादिश्चेति त्रिविधः । तन्मात्राणि तु पञ्च
शब्दतन्मात्रमाकाशहेतुः । स्पर्शतन्मात्रं वायुयोनिः । रूपतन्मात्रं
तेजोयोनिः । रसतन्मात्रमप्प्रकृतिः । गन्धतन्मात्रं पृथिवीहेतुः ।
इति पञ्चतन्मात्राणि इत्यष्टौ प्रकृतयः ।
के पुनर्विकाराः कति । षोडशविकाराः । एकादशेन्द्रियाणि पञ्च
महाभूतानि च । तत्र श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि
बुद्धीन्द्रियाणि शब्दस्पर्शरूपरसगन्धालोचनवृत्तीनि ।
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि वचनादानविहरणोत्सर्गानन्दवृत्तीनि ।
ज्ञानक्रियाशक्तिद्वयात्मकं सङ्कल्पविकल्पलक्षणं मन इत्येकादशेन्द्रियाणि ।
भूतानि चाकाशवायुतेजःसलिलपृथिवीलक्षणानि पञ्चेति षोडशविकाराः

अथ कः पुरुषः इत्युच्यते । पुरुषोऽनेकस्त्रिगुणरहितो विवेकी
अविषयोऽसाधारणोऽप्रसवधर्मा चेतनः साक्षी केवलो मध्यस्थो
द्रष्टाऽकर्ता च ॥
अथ के पुनस्त्रयो गुणा इत्युच्यन्ते । त्रैगुण्यं सत्त्वं
रजस्तम इति । त्रय एव गुणास्त्रैगुण्यम् । सत्त्वं नाम
पाटवमार्दवलाघवप्रसन्नताभिसङ्गप्रीतितुष्ट्यनीहासन्तोषादिलक्षणमनन्तभेदं
समासतः सुखावहम् । रजो नाम
शोकतापखेदस्तम्भोद्गमोद्वेगरोषमानादिलक्षणमनन्तभेदं
समासतो दुःखावहम् । तमो
नामाच्छादनावरणबीभत्सदैन्यगौरवालस्यनिद्राप्रमादादिलक्षणमनन्तभेदं
समासतो मोहात्मकं एतत् त्रैगुण्यं व्याख्यातम् ॥
सत्त्वं प्रकाशकं विन्द्याद्रजो विन्द्यात् प्रवर्तकम् ।
विनाशकं तमो विन्द्यात् त्रैगुण्यं नाम सञ्ज्ञितम् ॥
अत्राह कः सञ्चरः प्रतिसञ्चरश्चेति । उच्यते । उत्पत्तिः सञ्चरः ।
प्रलयः प्रतिसञ्चरः । तत्रोत्पत्तिर्नामाव्यक्तात् समुपदिष्टात् सर्वजगतः
परेण रूपेणाधिष्ठानात्मकात् महान् महतोऽहंकारः । स च त्रिविधः ।
वैकृतिको भूतादिस्तैजसश्चेति । तत्र वैकृतादिन्द्रियाण्युत्पद्यन्ते
भूतादेस्तन्मात्राणि तैजसादुभयम् इन्द्रियाणि तन्मात्राणि चेति ।
तन्मात्रेभ्यो भूतानि । अयं सञ्चरः । प्रतिसञ्चरो नाम भूतानि
तन्मात्रेषु लीयन्ते । तन्मात्राणीन्द्रियाणि चाहंकारे । अहंकारो बुद्धौ ।
बुद्धिरव्यक्ते । ततोऽव्यक्तं तु क्वचिन्न लीयते कस्मात् अनुत्पन्नत्वात् ।
इत्येवं प्रतिसञ्चरः । एवमेतौ सञ्चरप्रतिसञ्चरौ व्याख्यातौ ॥
अत्राह किंविधमध्यात्ममधिभूतमधिदैवतं च । अत्रोच्यते ।
बुद्धिरध्यात्मम् । बोधयितव्यमधिभूतम् । ब्रह्मा तत्रादिदैवतम् ।
अहंकारोऽध्यात्मम् । अभिमन्तव्यमधिभूतम् । रुद्रस्तत्राधिदैवतम् ।
मनोध्यात्मं संकल्पमधिभूतम् । चन्द्रस्तत्रादिदैवतम् । श्रोत्रमध्यात्मम् ।
स्पर्शयितव्यमधिभूतम् । वायुस्तत्राधिदैवतम् । चक्षुरध्यात्मम् ।
दर्शयितव्यमधिभूतम् । सूर्यस्तत्रादिदैवतम् । जिह्वाध्यात्मम् ।
रसयितव्यमधिभूतम् । वरुणस्तत्राधिदैवतम् । नासाध्यात्मम् ।
घ्रातव्यमधिभूतम् । पृथिवी तत्राधिदैवतम् । वागध्यात्मम् ।
वक्तव्यमधिभूतम् । अग्निस्तत्राधिदैवतम् । पाणिरध्यात्मम् ।
आदातव्यमधिभूतम् । इन्द्रस्तत्राधिदैवतम् । पादावध्यात्मम् ।
गन्तव्यमधिभूतम् । विष्णुस्तत्राधिदैवतम् । पायुरध्यात्मम् ।
उत्स्रष्टाव्यमधिभूतम् । मित्रस्तत्राधिदैवतम् । उपस्थमध्यात्मम् ।
आनन्दयितव्यमधिभूतम् । प्रजापतिस्तत्राधिदैवतम् । एवमेव
त्रयोदशकरणस्याध्यात्ममधिभूतमधिदैवं च व्याख्यातम् । कानि
चत्वारीत्यत आह चेति । त्रीणि गुणरूपाणि चतुर्थमधिदैवतमित्यर्थः ॥
चत्वारि यो वेदयते यथावद्
गुणस्वरूपाण्यधिदैवतं च ।
विमुक्तपाप्मा गतदोषसङ्गो
गुणांस्तु भुङ्क्ते न गुणैः स भुज्यते ॥
अथ कास्ता अभिबुद्धय इत्युच्यन्ते । पञ्चाभिबुद्धयः । बुद्धिरभिमान
इच्छा कर्तव्यं तत्क्रिया चेति । अभिमुखी बुद्धिरभिबुद्धिः । इदं
करणीयमेत्येतदध्यवसायो बुद्धिः क्रियात्मपरामर्शस्वरूपप्रत्ययः ।
अभिमुखो मानोऽहं करोमीत्यहंकारोऽभिमानः । बुद्धिक्रिया इच्छा
वाञ्छा । कर्तव्यं संकल्पो मनसो वृत्तिः । क्रिया एतद्वस्तुस्वरूपमिति
कर्तव्यालोचनं यद्बुद्धीन्द्रियाणां सा क्रिया । इत्थमेतत् कर्तव्यमिति
यत्प्रवृत्तिः कर्मेन्द्रियाणां सा क्रियेति । एवमेताह पञ्चाभिबुद्धयो
व्याख्याताः ॥
अथ काः पञ्चकर्मयोनयः उच्यन्ते । धृतिः श्रद्धा सुखा अविविदिषा
विविदिषा चेति पञ्च कर्मयोनयः ।
वाचि कर्मणि काये च प्रतीतिर्याभिरज्यते ।
तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ॥
अनसूया ब्रह्मचर्यं यजनं याजनं तपः ।
प्रतिग्रहोऽत्रहोमश्च श्रद्धाया लक्षणं स्मृतम् ॥
सुखार्थी यस्तु सेवेत विद्याकर्मतपांसि च ।
प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्तिता ॥
विषधूममूर्छितवदविविदिषा । विविदिषा ध्यायिनां प्रज्ञायोनिः ।
एकत्वं च पृथक्त्वं च नित्यं चेदमचेतनम् ।
सूक्ष्मं सत्कार्यमक्षोभ्यं ज्ञेया विविदिषा हि सा ॥
कार्यकारणक्षमकरा विविदिषा प्राकृतिका वृत्तिः । धृतिः श्रद्धा सुखा
अविविदिषा चतस्रो बन्धाय विविदिषैका मोक्षाय इति पञ्च कर्मयोनयो
व्याख्याताः ॥
अत्राह के ते पञ्चवायवः । उच्यन्ते ।
प्राणोऽपानः समानश्च उदानो व्यान एव च ।
इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् ॥
तत्र प्राणो नाम वायुर्योऽयं मुखनासिकाधिष्ठानप्राणनात्
क्रमेणाननात् प्राण इत्यभिधीयते । अपानो नाम वायुर्नाभेरधिष्ठाता
अपनयनादधोगमनाच्चापान इत्यभिधीयते । समानो नाम
वायुर्हृदधिष्ठाता समनात् समगमनाच्च समान इत्यभिधीयते । उदानो
नाम वायुः कण्ठाधिष्ठाता ऊर्ध्वं गमनाच्च उदान इत्यभिधीयते । व्यानो
नाम वायुः सन्ध्यधिष्ठाता प्राणादिजृम्भणाच्च व्यान इत्यभिधीयते ।
इति पञ्चवायवो व्याख्याताः ॥
आह के ते पञ्चकर्मात्मानः उच्यन्ते । वैकारिकस्तैजसो भूतादिश्च
सानुमानो निरनुमानश्चेति । तत्र वैकारिकः शुभकर्मकर्ता ।
तैजसोऽशुभकर्मकर्ता । भूतादिर्मूढकर्मकर्ता । सानुमानः
शुभमूढकर्मकर्ता । निरनुमानोऽशुभमूढकर्मकर्ता । इत्येते
पञ्चकर्मकर्तारो व्याख्याताः ॥
आह का सा पञ्चपर्वाविद्येति । उच्यते । तमो मोहो
महामोहस्तामिस्रोऽन्धतामिस्रश्चेति । तत्र तमोमोहावुभावेतावष्टात्माकौ ।
महामोहो दशात्मकः । तामिस्रान्धतामिस्रौ चाष्टादशात्माकौ । तत्र तमो
नामाष्टासु प्रकृतिष्वव्यक्तबुद्ध्यहंकारपञ्चतन्मात्रसञ्ज्ञितासु
अनात्मस्वात्मज्ञानाभिमानस्तम इत्यभिधीयते । मोहो
नामाणिमाद्यष्टागुणैश्वर्यप्राप्तये योभिमान उत्पद्यते स मोह
इत्यभिधीयते । महामोहो नाम दृष्टानुश्रविकेषु विषयेषु दशसु
निवृत्तेषु मुक्तोऽहमिति मन्यते स महामोह इत्यभिधीयते । तामिस्रो
नाम अष्टगुणैश्वर्येऽणिमाद्ये दशविधे च विषये प्रतिहतस्य
दुःखमुत्पद्यतेऽसौ तामिस्र इत्यभिधीयते । अन्धतामिस्रो नाम
अणिमाद्यष्टगुणैश्वर्ये दशविधे च विषये सिद्धे मरणकाले च
यो विषादः प्रत्यपद्यते सोऽन्धतामिस्र इत्यभिधीयते । एवमेषा
पञ्चपर्वाऽविद्या द्विषष्टिभेदा व्याख्याता ॥
अत्राह काष्टाविंशतिधाशक्तिः । अत्रोच्यते । एकादशेन्द्रियवधाः
सप्तदशबुद्धिवधाः । एषाष्टाविंशतिधाशक्तिः । तत्रेन्द्रियवधास्तावत् ।
बधिरस्त्वक्बधिरः अन्धः जडजिह्वः अजिघ्रः मूकः कुणिः पङ्गुः नपुंसकः
ऊर्ध्ववायुयुक्तः अमनाः । तदुक्तम् ।
बाधिर्यं कुष्ठितान्धस्त्वं जडताऽजिघ्रता तथा ।
मूकता कौण्यपङ्गुत्वं क्लैब्योदावर्तमत्तताः ॥
एतेदिन्द्रियद्वारा बुद्धेरेव वधाः । साक्षाद्बुद्धिवधा यथा ।
नवविधतुष्टिवैकल्यात् अष्टविधासिद्धवैकल्याच्च सप्तदशबुद्धिवधा
इत्यष्टाविंशतिधाशक्तिः ॥
का पुनर्नवधा तुष्टिः उच्यते । चतस्र आद्यात्मिक्यस्तुष्टयः बाह्याः
पञ्च । आद्याः प्रकृत्युपादानकालभाग्याख्याः । प्रकृत्यैव मुक्तिः
किं पुनः साधनैरिति तुष्टिः प्रकृत्याख्या अम्भो नाम । साधनैः
संन्यासादिभिरुपात्तैस्तुष्टिः साधानाख्या सलिलं नाम । कालेनैव मुक्त्यादिकं
सेत्स्यति किं दुःखैः संन्यासादिसाधनैरिति तुष्टिः कालाख्याऽघो नाम ।
या तु भाग्यादेव सर्वं सेत्स्यति किं साधनादिध्यानादिक्लेशैरिति सा
भाग्याख्या तुष्टिर्नाम । बाह्याः शब्दादिविषयवैराग्यास्तुष्टयः
अर्जनरक्षणक्षयभोगहिंसादोषदर्शनं वैराग्यहेतुः
पञ्चविधस्तद्भेदेन पञ्चतुष्टयः ॥
अथ काः सिद्धयः उच्यन्ते । अष्टौ सिद्धयः । उच्यन्ते । अध्ययनं तारं
नाम सिद्धिः । ततोऽर्थज्ञानं सुतारं नाम । ततस्तर्केणार्थपरीक्षणं
तारतारं नाम सिद्धिः । ततः परीक्षकसंवादनं रम्यकं नाम ।
ततो विवेकख्यातिः सदामुदितं नाम । एताः पञ्च गौण्यः सिद्धयः ।
दुःखत्रयविघातास्तास्त्रयो मुख्याः सिद्धयः । प्रमोदमुदितमोदनामाख्याः
फलमित्यष्टौ सिद्धयः । तुष्टिसिद्धीनां विपर्ययात् सप्तदशधा
वुद्धिवधाः ॥
के पुनर्मौलिकार्थाः कतिधा उच्यन्ते । दशधा मौलिकार्थाह ।
एकत्वमर्थवत्त्वं पारार्थ्यं प्रधानस्य । अन्यत्वमकर्तृत्वं बहुत्वं
पुरुषस्य । अस्तित्वं योगो वियोगश्चेत्युभययोः । शेषवृत्तिः
परिशिष्टत्वं प्रलये तदुभययोः । तदुक्तम्
प्रधानास्तित्वमेकत्वमर्थवत्त्वं यथार्थता ।
पारार्थ्यं च तथा नैक्यं वियोगो योग एव च ॥
शेषवृत्तिरकर्तृत्वं मौलिकार्थाः स्मृता दश ॥ इति ।
अत्राह कोऽनुग्रहसर्गः । अनुगृह्णाति प्रत्ययभूतादिसर्गं यः सर्गः
सोऽनुग्रहसर्गः । तन्मात्रसर्ग एवासौ विशेषापरनामा ।
के विशेषाः कियन्तश्च । उच्यन्ते । लिङ्गदेहाह स्थूलदेहाः
स्थूलभूतानि च । तत्र लिङ्गं स्थूलदेहात् पूर्वमुत्पन्नमव्याहतं
स्थूलनाशेऽप्यनश्वरम् । महदहंकारेन्द्रियतन्मात्रात्मकम् ।
धर्माधर्मज्ञानाज्ञानवैराग्यावैराग्यैश्वर्यानैश्वर्याख्यभाववासितं
संसरति । स्थूलभूतानि तु भूगोलसमुद्रवह्निशिशुमारब्रह्माण्डविराटादीनि ।
स्थूलदेहाः के कतिविधाश्चेति उच्यते ॥ चतुर्दशविधो भूतसर्गः ।
तत्राष्टाविकल्पो दैवस्तैर्यग्योनः पञ्चधा मानुष्य एकविधः ब्राह्मः
प्राजापत्यः पैत्रे गान्धर्वो याक्षो राक्षसः पैशाचाश्च दैवसर्गः
पशुमृगसरीसृपस्थावराः तिरश्चां सर्गः । ब्राह्मणादिजातिभेदेऽपि
संस्थाने विशेषाभावात् एकविधो मानुष्य इति चतुर्दशविधाः
स्थूलदेहाः । कह पुनर्बन्धः कतिधा च । त्रिविधो बन्धः ।
काः पुनस्ता विधा उच्यन्ते । प्राकृतिको वैकृतिको दाक्षणिकश्च
बन्धः । प्रकृतिमात्मानं ज्ञात्वा तच्चिन्तनात् प्राकृतिकः अत्रोच्यते
पूर्णवर्षसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तका इति । महदादीनात्मत्वेन
ज्ञात्वा तच्चिन्तनाद्वैकारिकः । अत्रोच्यते ।
दशमन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भौतिकास्तु शतं पूर्णं सहस्रं चाभिमानिकाः ॥
बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः ।
अमी विदेहाः ।
इष्टापूर्त्ती दक्षिणा तन्निमित्तो दाक्षणिकः अत्रोच्यते ।
स्वर्गस्था नरकं यान्ति नारकाश्च त्रिविष्टपमिति ।
गतागतं कामकामा लभन्त इति च । अत एव हि त्रिष्वपि बन्धेषु एकैकापाये
ततस्ततो मोक्ष इति ।
त्रिविधो मोक्षः । कर्मणो विकारात् प्राकृतश्च मोक्षः । यदुक्तम् ।
प्राकृतेन च बन्धेन तथा वैकारिकेण च ।
दक्षिणाभिस्तृतीयेन वृद्धो नान्येन मुच्यते ॥ इति ।
अथ कुतस्त्यानां तत्त्वानां सिद्धिः । प्रमाणादिति ब्रूमः । तत्र प्रमाणं
किं कतिविधम वा उच्यते त्रिविधं प्रमाणम् । तिस्रो विधा यस्येति
त्रिविधम् । कास्ता विधाः । उच्यते । दृष्टमनुमानमाप्तवचनं च ।
अर्थसन्निकृष्टेन्द्रियजो निश्चयो दृष्टम् । इन्द्रियाणि पञ्च
चक्षुरादीनि मनश्च । व्याप्तिपक्षधर्मताज्ञानपूर्वकमनुमानम् ।
तच्च त्रिविधम् । पूर्ववत् शेषवत् सामान्यतो दृष्टं
च । पूर्ववद्यथा कर्दमेन पूर्ववृत्तवृष्ट्यनुमानम् ।
शेषवद्यथा । समुद्रातपलमुदकं(?) क्षारमुपलभ्य
शेषस्यापि क्षारत्वानुमानम् । सामान्यतो दृष्टां च यथा ।
रूपाद्युपलभ्य तदुपलब्धेः कारणस्यानुमानम् । रूपाद्युपलब्धयः
करणसाध्याः क्रियत्वात् छिदिक्रियावत् । आप्तश्रुतिराप्तवचनं च ।
यथार्थवाक्यजार्थविषयोध्यवसाय इति यावत् । प्रावादुकोद्भावितानां तु
उपमानार्थापत्तिसम्भवाभावैतिह्यप्रतिभानामित्युक्तेष्वेवान्तर्भावः ।
यत् तद्यथा गौर्गवयस्तथेति वाक्यम् । तद्ज्ञाननिधीरागम
एव । गवयेपि गोसदृशस्य गवयशब्दो वाचक इति प्रत्ययः
सोयमनुमानमेतत्सङ्केतग्रहरूपत्वात् । यद् गवयस्य
चक्षुःसन्निकृष्टगोसादृश्यज्ञानं तत्प्रत्यक्षमेव ।
अत एव स्मर्यमाणायां गवि सादृश्यज्ञानं प्रत्यक्षम् ।
गोगवययोः सादृश्यस्य गवयान्तरवर्त्तिभूयोवयवसामान्यरूपस्य
योगरूपस्यैकत्वादित्युपमानं न मानान्तरम् । जीवतो गृहाभावदर्शनेन
बहिर्भावकल्पनादित्यर्थापत्तिरनुमानमेव । सम्भवोपि खार्यादौ
द्रोणाढकप्रस्थाद्यवगमरूपोऽनुमानमेव । इह भूतले घटो
नास्तीत्यादिरभावावगमोऽपि प्रत्यक्षमेवेति नाभावः पृथक् प्रमाणम् ।
अनिर्दिष्टप्रवक्तृकं प्रवादमात्रमैतिह्यमपीह वटे यक्षः
प्रतिवसतीत्यप्रमाणमेव । आप्तमूलत्वे त्वागम एव । द्वारवती पुण्यभूमिरिति
श्रुतेः तत्र वसतः श्रेयांसस्तत्र गमने पुण्यं भवतीत्यादिबुद्धिर्जायमाना
प्रतिभा । यत्रोच्यते । अनुक्तमप्यूहति पण्डितो जन इति । सा तु प्रायेण
प्रमाणमेव । आर्षं तु दर्शनं प्रत्यक्षमेव । या प्रतिभा साप्यनुमानमेव ॥
त्रयोविंशतिसूत्रैर्हि सर्वशास्त्रार्थसंग्रहः ।
कृतो मुनिवरेणात्र यथामति सचीवृतः(?)॥
इति सांख्यसूत्रविवरणाख्या कापिलसूत्रवृत्तिः समाप्ता ॥
जय श्री राधे
जय श्री राधे ।।

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता