"श्री लक्ष्मीनारायण साधना "

श्री लक्ष्मीनारायण साधना मंत्र
।।ॐ तत्सत ।।
                       ।।नारायण हृदयम् ।।

।।हरिः ओम् ।।☀️अस्य श्रीनारायण-हृदय-स्तोत्र-महामन्त्रस्य भार्गव ऋषिः अनुष्टुप् छन्दः लक्ष्मीनारायणो देवता
नारायण प्रीत्यर्थे जपे विनियोगः ।।
☀️करन्यास
नारायणः परं ज्योतिरिति अङ्गुष्ठाभ्यां नमः ।
नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।
नारायणःपरो देव   इति  मध्यमाभ्यां नमः ।
नारायणःपरं धामेति अनामिकाभ्यां नमः ।
नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः ।
विश्वं नारायणः इति करतलपृष्ठाभ्यां नमः ।।
☀️अङ्गन्यास:-
नारायणःपरं ज्योतिरिति  हृदयाय नमः ।
नारायणःपरं ब्रह्मेति शिरसे स्वाहा ।
नारायणः परो देव इति शिखायै वौषट् ।
नारायणः परं धामेति कवचाय हुम् ।
नारायणः परो धर्म इति नेत्राभ्यां वौषट् ।
विश्वंनारायण इति अस्त्राय फट् ।                  भूर्भुवस्सुवरोमिति दिग्बन्धः ।।
☀️।।।।अथ ध्यानम् ।।।
उद्यादादित्यसङ्काशं पीतवासं  चतुर्भुजम् । शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ।।1
त्रैलोक्याधारचक्रं तदुपरि कमठं तत्र चानन्तभोगी  तन्मध्ये भूमि पद्माङ्कुश शिखरदळं कर्णिकाभूत-मेरुम् । तत्रत्यं शान्तमूर्तिम् मणिमय मुकुटं-कुण्डलोद्भासिताङ्गं  लक्ष्मीनारायणाख्यं सरसिज नयनं संततं चिन्तयामः ।।2
☀️अस्य श्रीनारायण-हृदय-स्तोत्र-महामन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, नारायणो देवता, नारायण प्रीत्यर्थे जपे विनियोगः ।।
ॐ।। नारायणःपरं ज्योति-रात्मा नारायणः परः । नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ।।3
नारायणः परो देवों धाता नारायणः परः । नारायणः परो धाता नारायण नमोऽस्तु ते ।।4
नारायणः परं धाम ध्यानं नारायणः परः । नारायण परो धर्मो नारायण नमोऽस्तु ते ।।5
नारायणः परो देवो विद्या नारायणः परः । विश्वं नारायणः साक्षान् नारायण नमोऽस्तु ते ।।6
नारायणाद् विधि-र्जातो जातो नारायणाद् भवः । जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ।।7
रवि-र्नारायण-स्तेजः चन्द्रो नारायणो महः । वह्नि-र्नारायणः साक्षात् नारायण नमोऽस्तु ते ।।8
नारायण उपास्यः स्याद् गुरु-र्नारायणः परः । नारायणः परो  बोधो नारायण नमोऽस्तु ते ।।9
नारायणः फलं मुख्यं सिद्धि-र्नारायणः सुखम् । हरि-र्नारायणः शुद्धि-र्नारायणः नमोऽस्तु ते ।।10
निगमावेदितानन्त-कल्याणगुण-वारिधे । नारायण नमस्तेऽस्तु नरकार्णव-तारक ।।11
जन्म-मृत्यु-जरा-व्याधि-पारतन्त्र्यादिभिः सदा । दोषै-रस्पृष्टरूपाय नारायण नमोऽस्तु ते ।।12
वेदशास्त्रार्थविज्ञान-साध्य-भक्त्येक-गोचर । नारायण नमस्तेऽस्तु मामुद्धर भवार्णवात् ।।13
नित्यानन्द महोदार परात्पर जगत्पते । नारायण नमस्ते ऽस्तु मोक्षसाम्राज्य-दायिने ।।14
आब्रह्मस्थम्ब-पर्यन्त-मखिलात्म-महाश्रय । सर्वभूतात्म-भूतात्मन् नारायण नमोऽस्तु ते ।।15
पालिताशेष-लोकाय पुण्यश्रवण-कीर्तन । नारायण नमस्ते ऽस्तु प्रलयोदक-शायिने ।।16
निरस्त-सर्वदोषाय भक्त्यादि-गुणदायिने । नारायण नमस्तेऽस्तु त्वां विना न हि मे गतिः ।।17
धर्मार्थ-काम-मोक्षाख्य-पुरूषार्थ-प्रदायिने । नारायण नमस्तेऽस्तु पुनस्तेऽस्तु नमो नमः ।।18
।।।।।अथ प्रार्थना ।।।
नारायण त्वमेवासि दहराख्ये हृदि स्थितः । प्रेरिता प्रेर्यमाणानां त्वया प्रेरितमानसः ।।19
त्वदाज्ञां शिरसा कृत्वा भजामि जन-पावनम् । नानोपासन-मार्गाणां भवकृद भावबोधकः ।।20
भावार्थकृद् भवातीतो भव सौख्यप्रदो मम । त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ।।21
त्वदधिष्ठान्-मात्रेण सा वै सर्वार्थकारिणी । त्वमेव तां पुरस्कृत्य मम कामान् समर्थय ।।22
न मे त्वदन्यस्त्रातास्ति त्वदन्यन्न हि दैवतम् । त्वदन्यं न हि जानामि पालकं पुण्यवर्धनम् ।।23
यावत्सांसारिको भावो मनस्स्थो भावनात्मकः । तावत्सिद्धिर्भवेत् साध्या सर्वदा सर्वदा विभो ।।24
पापिना-महमेकाग्रो दयालुनां त्वमग्रणीः । दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ।।25
त्वयाहं नैव सृष्टश्चेत् न स्यात्तव दयालुता । आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः ।।26
पापसङ्ग-परिश्रान्तः पापात्मा पापरूप-धृक् । त्वदन्यः कोऽत्र पापेभ्यः त्रातास्ति जगतीतले ।।27
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव                                 त्वमेव सर्वं मम देव देव ।।  28
प्रार्थनादशकं चैव मूलष्टकमथःपरम् । यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ।29
नारायणस्य हृदयं सर्वाभीष्ट-फलप्रदम् । लक्ष्मीहृदयकं स्तोत्रं यदि चैतद्विनाकृतम् ।।30
तत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा । एतत्सङ्कलितं स्तोत्रं सर्वाभीष्ट-फलप्रदम् ।।31
जपेत् सङ्कलितं कृत्वा सर्वाभीष्ट मवाप्नुयात् । नारायणस्य हृदयं आदौ जपत्वा ततःपरम् ।।32
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः । पुनर्नारायणं जपत्वा पुनर्लक्ष्मीनुतिं जपेत् ।।33
तद्वद्धोमाधिकं कुर्या-देतत्सङ्कलितं शुभम् । एवं मध्ये द्विवारेण जपेत् सङ्कलितं शुभम् ।।34
लक्ष्मीहृदयके स्तोत्रे सर्वमन्यत् प्रकाशितम् । सर्वान् कामानवाप्नोति आधिव्याधि-भयं हरेत् ।।35
गोप्यमेतत् सदा कुर्यात न सर्वत्र प्रकाशयेत् । इति गुह्यतमं शास्त्रं प्रोक्तं ब्रह्मादिभिः पुरा ।।36
लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधीः । तस्मात सर्वप्रयत्नेन साधयेद् गोपयेत्  सुधीः ।।37
यत्रैतत्पुस्तकं तिष्ठेत् लक्ष्मीनारायणात्मकम् । भूत पैशाच वेताळ भयं नैव तु सर्वदा ।।38
भृगुवारे तथा रात्रौ पूजयेत् पुस्तकद्वयम् ।सर्वदा सर्वदा स्तुल्यं गोपयेत् साधयेत् सुधीः । गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ।।39
।।इत्यथर्वरहस्ये उत्तरभागे नारायण हृदय स्तोत्रं ।।
☀️श्री लक्ष्मीनारायण ☀️
☀️हरिॐतत्सत ☀️
अस्य श्री आद्यादि श्रीमहालक्ष्मी हृदय-स्तोत्र-महामन्त्रस्य भार्गव ऋषिः (शिरसी), अनुष्टुबादि नानाछन्दांसि (मुखे),
आद्यादि-श्रीमहालक्षमी सहित  नारायणो देवता (हृदये)।।  ।।ॐबीजम् , ह्रीं शक्तिः, ऐं कीलकम् ।।
आद्यादि-श्रीमहालक्षमी- प्रासादसिद्ध्यर्थं  जपे विनियोगः ।।
☀️-ॐ।।    1 "आद्यादि-श्रीमहालक्षमी  देवतयै नमः "   हृदये,
2  "श्रीं बीजायै नमः " गुह्ये,  3  " ह्रीं शक्त्यै नमः "पादयोः,
4 "ऐं  बलायै नमः " मूर्धादि-पाद-पर्यन्तं विन्यसेत् ।  5  ॐ श्रीं ह्रीं ऐं करतल-करपार्श्वयोः,
करन्यास:- 1*श्रीं अंगुष्ठाभ्या नमः ---- 2* ह्रीं तर्जनीभ्यां  3*ऐं मध्यमाभ्यां  4*  श्रीं अनामिकाभ्यां नमः  5*ह्रीं कनिष्ठिकाभ्यां नमः  6* ऐं करतलपृष्ठाभ्यां नमः ।।
ह्रदयान्यास:-
ॐ ह्रदयाय नमः ह्रीं शिरसे स्वाहा ऐं शिखायै वौषट् श्रीं कवचाय हुम् ह्रीं नेत्राभ्यां वौषट् भूर्भुवस्सुवरों इति दिग्बन्धः ।।
 ☀️अथ ध्यानम् ☀️
हस्तद्वयेन कमले धारयन्तीं स्वलीलया ।।हार-नूपूर-संयुक्तां महालक्ष्मी विचिन्तयेत् ।।
कौशेय पीतवसनां अरविन्दनेत्राम्   पद्मद्वयाभय वरोद्यत-पद्महस्ताम् ।
उद्यच्छतार्क-सदृशां परमाङ्क-संस्थां- ध्यायेत् विधीशनत-पादयुगां जनित्रीम् ।।
।। श्री लक्ष्मी-कमलधारिण्यै सिंहवाहिन्यै स्वाहा ।।
 पीतवस्त्रां सुवर्णाङ्गी पद्महस्त-द्वयान्विताम् । लक्ष्मीं ध्यात्वेति मन्त्रेण स भवेत् पृथिवीपतिः ।।
मातुलङ्ग-गदाखेटे पाणौ पात्रञ्च बिभ्रती नृपमूर्धनि।
 ☀️।।।।।।।।।।ॐ श्रीं ह्रीं ऐं ।।।।।।।।
वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां , तेजोरूपां कनक-वसनां सर्वभूषोज्ज्वलाङ्गीम् ।।
बीजापूरं कनक-कलशं हेमपद्मं दधानाम्, आद्यां शक्तिं सकलजननीं विष्णु-वामाङ्कसंस्थाम्।
श्रीमत्सौभाग्यजननीं स्तौमि लक्ष्मीं सनातनीम् । सर्वकाम-फलवाप्ति-साधनैक-सुखावहाम् ।।2।।
स्मरामि नित्यं देवेशि त्वया  प्रेरितमानसः । त्वदाज्ञां शिरसा धृत्वा भजामि परमेश्वरीम् ।।3।।
समस्त सम्पत्सुखदां महाश्रियं  समस्त कल्याणकरीं महाश्रियम् ।
समस्त सौभाग्यकरीं महाश्रियं  भजाम्यहं ज्ञानकरीं महाश्रियम् ।।4।।
विज्ञानसम्पत्सुखदां महाश्रियम्  विचित्र-वाग्भूतिकरीं मनोहराम् ।
अनन्त-सौभाग्य-सुखप्रदायिनीं  नमाम्यहम् भूतिकरीं हरिप्रियाम् ।।5
समस्त-भूतान्तरसंस्थितां त्वं  समस्त-भक्तेश्श्वरि विश्वरूपे ।
तन्नास्ति यत्त्वद्व्यतिरिक्तवस्तु  त्वपादपद्मं प्रणमाम्यहं श्रीः ।।6
दारिद्रय-दुखौघ-तपोपहन्त्रि त्वत्- पादपद्मं मयि सन्निधत्स्व ।
दीनार्ति-विच्छेदन-हेतुभूतैः  कृपाकटाक्षैरभिषिञ्च मां श्रीः ।।7
विष्णु-स्तुतिपरां लक्ष्मीं स्वर्णवर्ण- स्तुति-प्रियाम् । वरदाभयदां देवीं वन्दे त्वां कमलेक्षणे ।।8
अम्ब प्रसीद करूणा-परिपूर्ण-दृष्ट्या  माँ त्वत्कृपाद्रविणगेहमिमं कुरुष्व ।
आलोकय प्रणत-हृद्गत-शोकहन्त्रि  त्वत्पाद-पद्मयुगलं  प्रणमाम्यहं श्रीः ।।9
शान्त्यै नमोऽस्तु शरणागत-रक्षणायै  कान्त्यै नमोऽस्तु कमनीय-गुणाश्रयायै ।
क्षान्त्यै नमोऽस्तु दुरितक्षय-कारणायै  धात्र्यै नमोऽस्तु धन-धान्य-समृद्धिदायै ।।10
शक्त्यै नमोऽस्तु शशिशेखर-संस्थितायै  रत्यै नमोऽस्तु रजनीकर-सोदरायै ।
भक्त्यै नमोऽस्तु भवसागर तारकायै  मत्यै नमोऽस्तु मधुसूदन-वल्लभायै ।।11
लक्ष्म्यै नमोऽस्तु शुभलक्षण-लक्षितायै  सिद्ध्यै नमोऽस्तु सुरसिद्ध सुपूजितायै ।
धृत्यै नमोऽस्तु मम दुर्गति-भञ्जनायै  गत्यै नमोऽस्तु वरसद्गति-दायकायै ।।12
देव्यै नमोऽस्तु दिवी देवगणार्चितायै  भूत्यै नमोऽस्तु भुवनार्ति-विनाशनायै ।
शान्त्यै नमोऽस्तु धरणीधर वल्लभायै  पुष्ट्यै नमोऽस्तु पुरूषोत्तम-वल्लभायै ।।13
सुतीव्र-दारिद्र्य-तमोपहन्त्र्यै  नमोऽस्तु ते सर्व-भयापहन्त्र्यै ।
श्रीविष्णु-वक्षस्थल-संस्थितायै  नमो नमः सर्व विभूति दायै ।।14
जयतु जयतु लक्ष्मी लक्षणालङ्कृताङ्गी  जयतु जयतु पद्मा पद्मसद्माभिवन्द्या ।
जयतु जयतु विद्या विष्णु वामाङ्कसंस्था  जयतु जयतु सम्यक् सर्व सम्पत्करी श्रीः ।।15
जयतु जयतु देवी देवसङ्घाभिपूज्या  जयतु जयतु भद्रा भार्गवी भाग्यरूपा ।
जयतु जयतु नित्या निर्मलज्ञानवेद्या  जयतु जयतु सत्या सर्वभूतान्तरस्था ।।16
जयतु जयतु रम्या रत्नगर्भान्तरस्था  जयतु जयतु शुद्धा शुद्धजाम्बूनदाभा ।
जयतु जयतु कान्ता  कान्तिमद्भासिताङ्गी  जयतु जयतु शान्ता शीघ्रमागच्छ-सौम्ये ।।17
यस्याः कलायाः कमलोद्भवाद्या  रूद्राश्च शक्रप्रमुखाश्च देवाः ।
जीवन्ति सर्वेऽपि सशक्तयस्ते  प्रभुत्वमाप्ताः परमायुषस्ते ।।18
●।।।।मुख बीजम् ।।।।ॐ ह्रां  ह्रीं अं आं यं दुं लं वम् ।।
लिलिखे निटिले विधिर्मम लिपिविसृज्यान्तरं  त्वया विलिखितव्यमेतदिति तत्फलप्राप्तये ।
तदन्तिकफल्स्फुटं कमलवासिनि श्रीरिमां  समर्पय स्वमुद्रिकां सकलभाग्यसंसूचिकाम् ।।19
●।।।पादबीजम्।।।ॐ अं आं ईं एं ऐं कं लं रं ।।।
कलया ते यथा देवि जीवन्ति सचराचराः । तथा सम्पत्करी लक्ष्मि सर्वदा सम्प्रसीद मे ।।20
यथा विष्णुर्ध्रुवं नित्यं स्वकलां संन्यवेशयत् । तथैव स्वकलां लक्ष्मि मयि सम्यक् समर्पय ।।21
सर्वसौख्यप्रदे देवि भक्तानामभयप्रदे । अचलां कुरू यत्नेन कलां मयि निवेशिताम् ।।22
मुदास्तां मत्फालं परमपदलक्ष्मीः स्फुटकला  सदा वैकुण्ठश्रीर्निवसतु कला मे नयनयोः ।
वसेत्सत्ये लोके मम वचसि लक्ष्मीर्वरकला  श्रियश्वेतद्वीपे निवसतु कला मे स्व-करयोः ।।23
●।।।नेत्रबीजम् ।।।ॐ घ्रां घ्रीं घ्रें घ्रैं घ्रों घ्रौं घ्रं घ्रः ।।
तावन्नित्यं ममाङ्गेषु क्षीराब्धौ श्रीकला वसेत् । सूर्याचन्द्रमसौ यावद्यावल्लक्ष्मीपतिः श्रियौ ।। 24
अज्ञानतिमिरं हन्तुं शुद्वज्ञानप्रकाशिका । सर्वैश्वर्यप्रदा मेऽस्तु त्वत्कला मयि संस्थिता ।।25
सर्वमङ्गलसम्पूर्णा सर्वैश्वर्यसमन्विता । आद्यादि श्रीर्महालक्ष्मीस्त्वत्कला मयि तिष्ठतु ।।26
अलक्ष्मीं हरतु क्षिप्रं तमः सूर्यप्रभा यथा । वितनोतु मम श्रेयस्त्वत्कला मयि संस्थिता ।।27
ऐश्वर्यमङ्गलोत्पत्तिः त्वत्कलां निधीयते । मयि तस्मात्कृतार्थोऽस्मि पात्रमस्मि स्थितेस्तव ।।28
भवदावेशभाग्यार्हो भाग्यवानस्मि भार्गवि । त्वत्प्रसादात्पवित्रोऽहं  लोकमातर्नमोऽस्तु ते ।।29
पुनासि मां त्वत्कलयैव यस्मात्  अतस्समागच्छ ममाग्रतस्त्वम् ।
परं पदं श्रीर्भव सुप्रसन्ना  मय्यच्युतेन प्रविशादिलक्ष्मीः ।।30
श्रीवैकुण्ठस्थिते लक्ष्मि समागच्छ ममाग्रतः । नारायणेन सह मां कृपादृष्ट्याऽवलोकय ।।31
सत्यलोकस्थिते लक्ष्मि त्वं ममागच्छ सन्निधिम् । वासुदेवेन सहिता प्रसीद वरदा भव ।।32
श्वेतद्वीपस्थिते लक्ष्मि शीघ्रमागच्छ सुव्रते । विष्णुना सहिता देवि जगन्मातः प्रसीद मे ।।33
क्षीराम्बुधिस्थिते लक्ष्मि समागच्छ समाधवे । त्वत्कृपादृष्टिसुधया सततं मा विलोकय ।।34
रत्नगर्भस्थिते लक्ष्मि परिपूर्णहिरण्यमयि । समागच्छ समागच्छ स्थित्वाशु पुरतो मम ।।35
स्थिरा भव महालक्ष्मि निश्चला भव निर्मले । प्रसन्नकमले देवि प्रसन्नहृदया भव ।।36
श्रीधरे श्रीमहालक्ष्मि त्वदन्तःस्थं महानिधिम् । शीघ्रमुद्धृत्य पुरतः प्रदर्शय समर्पय ।।37
वसुन्धरे श्रीवसुधे वसुदोग्ध्रि कृपामयि । त्वत्कुक्षिगतसर्वस्वं शीघ्रं मे सम्प्रदर्शय ।।38
विष्णुप्रिये रत्नगर्भे समस्तफलदे शिवे । त्वद्गर्भगतहेमादीन् सम्प्रदर्शय दर्शय ।।39
रसातलगते लक्ष्मि शीघ्रमागच्छ मे पुरः । न जाने परमं रूपं मातर्मे सम्प्रदर्शय ।।40
आविर्भव मनोवेगात् शीघ्रमागच्छ मे पुरः । मा वत्स भैरिहेत्युक्त्वा कामं गौरिव रक्ष माम् ।।41
देवि शीघ्रं ममागच्छ धरणीगर्भसंस्थिते । मातस्त्वद्भृत्यभृत्योऽहं  मृगये त्वां कुतूहलात् ।।42
उत्तिष्ठ जागृहि त्वं मे समुत्तिष्ठ सुजागृहि । अक्षयान् हेमकलशान् सुवर्णेन सुपूरितान् ।।43
निक्षेपान्मे समाकृष्य समुद्धृत्य ममाग्रतः । समुन्नतानना भूत्वा सम्यग्धेहि धरातलात् ।।44
मत्सन्निधिं समागच्छ मदाहितकृपारसा । प्रसीद श्रेयसां दोग्ध्रि लक्ष्मि मे नयनाग्रतः ।।45
अत्रोपविश्य लक्ष्मि त्वं स्थिरा भव हिरण्मयी । सुस्थिरा भव सम्प्रीत्या प्रसन्ना वरदा भव ।।46
आनीतांस्तु  त्वया देवि निधीन्मे सम्प्रदर्शय । अद्य क्षणेन सहसा दत्त्वा संरक्ष मां सदा ।।47
मयि तिष्ठ तथा नित्यं यथेन्द्रादिषु तिष्ठसि । अभयं कुरु मे देवि महालक्ष्मि नमोऽस्तु ते ।।48
समागच्छ महालक्ष्मि शुद्धजाम्बूनद-स्थिते । प्रसीद पुरतः स्थित्वा प्रणतं मां विलोकय ।।49
लक्ष्मीर्भुवं गता भासि यत्र यत्र हिरण्यमयी । तत्र तत्र स्थिता त्वं मे तव रूपं प्रदर्शय ।।50
क्रीडन्ती बहुधा भूमौ परिपूर्णकृपा मयि । मम मूर्धनि ते हस्तमविलम्बितमर्पय ।।51
फलतद्भाग्योदये लक्ष्मि समस्तपुरवासिनि । प्रसीद मे महालक्ष्मि परिपूर्णमनोरथे ।।52
अयोध्यादिषु सर्वेषु नगरेषु समास्थिते । विभवैर्विविधैर्युक्तैः समागच्छ मुदान्विते ।।53
समागच्छ समागच्छ ममाग्रे भव सुस्थिरा । करुणारसनिष्यन्दनेत्रद्वयविशालिनि ।।54
सन्निधत्स्व महालक्ष्मि त्वत्पाणिं मम मस्तके । करुणासुधया मां त्वमभिषिच्य स्थिउरं कुरु ।।55
सर्वराजगृहे लक्ष्मि समागच्छ बलान्विते । स्थित्वाऽऽशु पुरतो मेऽद्य प्रसादेनाभयं कुरु ।।56
सादरं मस्तके हस्तम् मम त्वं कृपयाऽर्पय ।सर्वराजस्थिते लक्ष्मी त्वत्कला मयि तिष्ठतु ।।57
आद्यादि श्रीर्महालक्ष्मि विष्णुवामाङ्कसंस्थिते । प्रत्यक्षं कुरु मे रूपं रक्ष मां शरणागतम् ।।58
प्रसीद मे महालक्ष्मि सुप्रसीद महाशिवे । अचला भव सुप्रीता सुस्थिरा भव मद्गृहे ।।59
यावत्तिष्ठन्ति वेदाश्च यावच्चन्द्र-दिवाकरौ । यावद्विष्णुश्च यावत्तवं तावत्कुरू कृपा मयि ।।60
चान्द्री कला यथा शुक्ले वर्धते सा दिने दिने । तथा दया ते मय्येव वर्धतामभिवर्धताम् ।।61
यथा वैकुण्ठनगरे यथा वै क्षीरसागरे । तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ।।62
योगिना हृदये नित्यं यथा तिष्ठसि विष्णुना । तथा मद्भवने तिष्ठ स्थिरं श्रीविष्णुना सह ।।63
नारायणस्य हृदये भवती यथाऽऽस्ते  नारायणोऽपि तव हृत्कमले यथाऽऽस्ते ।
नारायणस्त्वमपि नित्यविभू तथैव  तौ तिष्ठतां हृदि ममापि दयान्वितौ श्रीः ।।64
विज्ञानवृद्धिं हृदये कुरु श्रीः  सौभाग्यवृद्धिं कुरु मे गृहे श्रीः ।
दयासुवृद्धिं कुरूतां मयि श्रीः  सुवर्णवृद्धिं कुरु मे गृहे श्रीः ।।65
न मां त्यजेथाः श्रितकल्पवल्लि सद्भक्ति-चिन्तामणि-कामधेनो ।
न मां त्यजेथा भव सुप्रसन्ने गृहे कलत्रेषु च पुत्रवर्गे ।।66
●।।।।।कुक्षिबीजम्।।।ॐ अं  आं ईं एं ऐं ।।
आद्यादिमाये त्वमजाण्डबीजं    त्वमेव  साकार-निराकृती त्वम् ।
त्वया धृताश्चाब्जभवाण्डसङ्घाः  ह्चित्रं चरित्रं तव देवि विष्णोः ।।67
ब्रह्मरुद्रादयो देवा वेदाश्चापि न शक्नुयुः । महिमानं तव स्तोतुं मन्दोऽहं शक्नुयां कथम् ।।68
अम्ब त्वद्वत्सवाक्यानि सूक्तासूक्तानि यानि च । तानि स्वीकुरू सर्वज्ञे दयालुत्वेन सादरम् ।।69
भवन्तं शरणं गत्वा कृतार्थाः स्युः पुरातनाः । इति सञ्चिन्त्य मनसा त्वामहं शरणं व्रजे ।।70
अनन्ता नित्यसुखिनः त्वद्भक्तास्त्वत्परायणाः। इति वेदप्रमाणाद्धि देवि त्वां शरणं व्रजे ।।71
तव प्रतिज्ञा मद्भक्ता न नश्यन्तीत्यपि क्वचित् । इति सञ्चिन्त्य सञ्चिन्त्य प्राणान् सन्धारयाम्हम् 72
त्वदधीनस्त्वहं मातः त्वतकृपा मयि विद्यते । यावत्सम्पूर्णकामः स्यां तावद्देहि दयानिधे ।।73
क्षणमात्रं न शक्नोमि जीवितु त्वत्कृपा विना । न हि जीवन्ति जलजा जलं त्यक्त्वा जलाश्रयाः ।74
यथा हि पुत्रवात्सल्यात् जननी प्रस्नुतस्तनी । वत्सं त्वरितमागत्य सम्प्रीणयति वत्सला ।।75
यदि स्यां तव पुत्रोऽहं   माता त्वं यदि  मामकी। दयापयोधर स्तन्य सुधाभिरभिषिञ्च माम् ।।76
मृग्यो न गुणलेशोऽपि मयि दोषैक-मन्दिरे । पांसूनां वृष्टिबिन्दूनां दोषाणां च न मे मतिः ।।77
पापिनामहमेकाग्रो दयालुनां त्वमग्रणीः । दयनीयो मदन्योऽस्ति तव जगत्त्रये ।।78
विधिनाहं न सृष्टश्चेत् न स्यात्तव दयालुता । आमयो वा न सृष्टश्चेदौषधस्य वृथोदयः  ।79
कृपा मदग्रजा किं ते अहं किं वा तदग्रजः । विचार्य देहि मे वित्तं तव देवि दयानिधे ।।80
माता-पिता त्वं गुरुः सद्गतिः श्रीः  त्वमेव सञ्जीवनहेतुभूता ।
अन्यं न मन्ये जगदेकनाथे  त्वमेव सर्वं मम देवि सत्यम ।।81
●।।।।हृदयबीजम्।।।ॐघ्रां घ्रीं घ्रूं घ्रें घ्रों घ्रः हुं फट् कुरू कुरू स्वाहा ।।
आद्यादि लक्ष्मी भव सुप्रसन्ना विशुद्धविज्ञानसुखैकदोग्ध्रि ।
अज्ञानहन्त्री त्रिगुणातिरिक्ता  प्रज्ञाननेत्री भव सुप्रसन्ना ।।82
अशेषवाग्जाड्य-मलापहन्त्री  नवं नवं सुष्टु सुवाक्यदायिनी ।
ममैव जिह्वाग्रसुरङ्गवर्तिनी  भव प्रसन्ना वदने च मे श्रीः ।।83
समस्तसम्पत्सु विराजमाना समस्ततेजस्तु विभासमाना ।
विष्णुप्रिये त्वं भव दीप्यमाना वाग्यदेवता मे नयने प्रसन्ना ।।84
सर्वप्रदेशे सकलार्थदे त्वं  प्रभासुलावण्यदयाप्रदोग्ध्रि ।
सुवर्णदे त्वं सुमुखी भव  श्रीर्हिरण्यमयी मे नयने प्रसन्ना ।।85
सर्वार्थदा सर्वजगतत्प्रसूतिः सर्वेश्वरी सर्वभयापहन्त्री ।
सर्वोन्नता त्वं सुमुखी च नः  श्रीर्हिरण्यमयी मे भव सुप्रसन्ना ।।86
समस्त विघ्नौघ विनाशकारिणी  समस्त भक्तोद्धरणे विचक्षणा ।
अनन्तसम्मोद सुखप्रदायिनी  हिरण्यमयी मे नयने प्रसन्ना ।।87
देवि प्रसीद दयनीयतमाय मह्यं  देवाधिनाथ-भव देवगणाभिवन्द्ये ।
मातस्तथैव भव सन्निहिया दृशोर्मे  पत्या समं मम मुखे भव सुप्रसन्ना ।।88
मा वत्स भैरभयदानकरोऽर्पितस्ते  मौलौ ममेति मयि दीनदयानुकम्पे ।
मातः समर्पय मुदा करूणाकटाक्षं  माङ्गल्यबीजमिह नः सृज जन्म मातः ।।89
●।।।कण्ठबीजम् ।।।ॐ श्रां श्रीं श्रूं श्रैं श्रौं  श्रं श्राः  ।।।
कटाक्ष इह कामधुक् तव मनस्तु चिन्तामणिः  करः सुरतरूः सदा नवनिधिस्त्वमेवेन्दिरे ।
भवेत्तव दयारसो मम रसायनं चान्वहं  मुखं तव कलानिधिर्विविधवाञ्छितार्थप्रदम् ।।90
यथा रसस्पर्शनतोऽयसोऽपि सुवर्णता  स्यात्कमले तथा ते ।
कटाक्षसंस्पर्शनतो जनानां  अमङ्गलानामपि मङ्गलत्वम् ।।91
देहीति नास्तीति वचः प्रवेशाद्  भीतो रमे त्वां शरणं प्रपद्ये ।
अतः सदास्मिन्नभयप्रदा त्वं  सहैव पत्या मयि सन्निधेहि ।।92
कल्पद्रुमेण मणिना सहिता सुरम्या  श्रीस्ते कला मयि रसेन रसायनेन ।
आस्तामतो मम च दृक्करपाणिपाद- स्पृष्ट्याः सुवर्णवपुषः स्थिरजङ्गमाः स्युः ।।93
आद्यादि विष्णोः स्थिरधर्मपत्नी  त्वमेव पत्या मम सन्निधेहि ।
आद्यादिलक्ष्मि त्वदनुग्रहेण  पदे पदे मे निधिदर्शनं स्यात् ।।94
आद्यादिलक्ष्मीहृदयं पठेद्यः  स राज्यलक्ष्मीमचलां तनोति ।
महादरिद्रोऽपि भवेद्धनाढयः  तदन्वये श्रीः स्थिरतां प्रयाति ।।95
यस्य स्मरणमात्रेण तुष्टा स्याद्विष्णुवल्लभा । तस्याभीष्टं ददत्याशु तं पालयति पुत्रवत् ।।96
इदं रहस्यं हृदयं सर्वकामफलप्रदम् । जपः पञ्चसहस्रं तु पुरश्चरणमुच्यते ।।97
त्रिकालं एककालं वा नरो भक्तिसमन्वितः । यः पठेत् शृणुयाद्वापि स याति परमां श्रियम् ।।98
महालक्ष्मीं समुद्दिश्य निशि भार्गववासरे । इदं श्रीहृदयं जपत्वा पञ्चवारं धनी भवेत् ।।99
अनेन हृदयेनान्नं गर्भिण्या अभिमन्त्रितम् । ददाति तत्कुले पुत्रो जायते श्रीपतिः स्वयम् ।।100
नरेणाप्यथवा नार्या लक्ष्मीहृदयमन्त्रिते । जले पीते च तद्वंशे मन्दभाग्यो न जायते ।।101
य आश्वयुङ्मासि च शुक्लपक्षे  रमोत्सवे सन्निहिते च भक्त्या ।
पठेत्तथैकोत्तरवारवृद्ध्या  लभेत्स सौवर्णमयीं सुवृष्टिम् ।।102
य एकभक्य्याऽन्वहमेकवर्षं विशुद्धधीः  सप्ततिवारजापी ।
स मन्दभाग्योऽपि रमाकटाक्षात्  भवेत्सहस्राक्षशताधिकश्रीः ।।103
श्रीशांघ्रिभक्ति हरिदासदास्यं  प्रपन्नमन्त्रार्थदृढैकनिष्ठाम् ।
गुरोः स्मृतिं निर्मलबोधबुद्धिं ,  प्रदेहि मातः परमं पदं श्रीः ।।104
पृथ्वीपतित्वं पुरूषोत्तमत्वं विभूतिवासं विविधार्थसिद्धिम् ।
सम्पूर्णकीर्तिं बहुवर्षभोगं  प्रदेहि मे देवि पुनःपुनस्त्वम् ।।105
वादार्थसिद्धिं बहुलोकवश्यं  वयःस्थिरत्वं ललनासु भोगम् ।
पौत्रादिलब्धिं सकलार्थसिद्धिं  प्रदेहि मे भार्गवि जन्मजन्मनि ।।106
सुवर्णवृद्धिं कुरु मे गृहे श्रीः  विभूतिवृद्धिं कुरु मे गृहे श्रीः ।
कल्याणवृद्धिं कुरु मे गृहे श्रीः  विभूतिवृद्धिं कुरु मे गृहे श्रीः ।।107
●।।।शिरोबीजम् ।।।ॐ यं  हं कं लं वं श्रीम्।।।
ध्यायेल्लक्ष्मीं प्रहसितमुखीं कोटिबालार्कभासां  विद्युत्वर्णाम्बरवरधरां भूषणाढ्यां सुशोभाम् ।
बीजापूरं सरसिजयुगं बिभ्रतीं सुवर्णपात्रं  भर्त्रायुक्तां मुहुरभयदां मह्यमप्यच्युतश्रीः ।।108

।इति श्रीअथर्वणरहस्ये लक्ष्मीहृदयस्तोत्रं सम्पूर्णम् ।।
                           ।।ॐ तत्सत ।।
                       ।।नारायण हृदयम् ।।
Jay Sri Radhe. 

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता