श्री हनुमान
श्री हनुमान साधना
☀️श्री हनुमान कवच माला मन्त्रस्य ☀️
ॐ नमो भगवते विचित्रवीर हनुमते प्रलयकालानलप्रभाज्वलत्प्रताप वज्रदेहाय अञ्जनीगर्भसम्भूयाय प्रकटविक्रमवीर दैत्यदानवयक्षराक्षसग्रहबन्धनाय भूतग्रहप्रेतपिशाचग्रह शाकिनीग्रह डाकिनीग्रह काकिनीग्रह कामिनीग्रह ब्रह्मग्रह ब्रह्मराक्षसग्रह चोरग्रहबन्धनाय एहि एहि आगच्छ आगच्छ आवेशय आवेशय मम ह्रदयं प्रवेशय प्रवेशय स्फुर स्फुर प्रस्फुर प्रस्फुर सत्यं कथय व्याघ्रमुखं बन्धय बन्धय सर्पमुखं बन्धय बन्धय राजमुखं बन्धय बन्धय सभामुखं बन्धय बन्धय शत्रुमुखं बन्धय बन्धय सर्वमुखं बन्धय बन्धय लंकाप्रसादभञ्जनं सर्वजनं में वशमानय वशमानय श्रीं ह्रीं क्लीं श्रीं सर्वान आकर्षय आकर्षय शत्रून् मर्दय मर्दय मारय मारय चूर्णय चूर्णय खे खे खे श्रीरामचन्द्राज्ञया प्रज्ञया मम कार्यसिद्धि कुरू कुरू मम शत्रून् भस्मी कुरु कुरु स्वाहा ।।ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् श्रीविचित्रवीरहनुमते मम सर्व शत्रून् भस्मी कुरु कुरु हन हन ह्रुं फट् स्वाहा ।।।
☀️श्रीहनुमान माला मंत्र ☀️
ॐ ऐं श्रीं ह्रां ह्रीं ह्रूं ह्रस्फें ख्र्फ्रें ह्स्रौं ह्र्स्ख्फें ह्र्स्रौं
ॐ नमो भगवते प्रकटपराक्रमाय आक्रान्त दिङ्मण्डल यशोवितान धवलीकृतजगत्त्रितय वज्रदेह ज्वलदग्नि सूर्यकोटि सम्प्रभतनुरूह रुद्रावतार लंकापुरी दहनोदधिलंघन दशग्रीवशिरः कृतान्तक सीताश्वासन वायुसुत अंजनगर्भसंभूत श्रीरामलक्ष्मणान्दकर कपिसैन्यप्राकारा सुग्रीवसख्यकारण बालिनिर्बहणकारण द्रोणपर्वतोत्पाटन अशोकवनविदारण अक्षयकुमारच्छेदन वनरक्षाकरसमूह विभंजन ब्रह्मास्त्रब्रह्मशक्तिग्रसन लक्ष्मणशक्तिभेदनिवारण विशल्यौषधि समानयन बालोदितभानुमण्डलग्रसन मेघनादहोमविध्वंसन इन्द्रजिद्धकारण सीतारक्षक राक्षसीसंघविदारण कुम्भकर्णादिवधपरायण श्रीरामभक्तितत्पर समुद्रव्योमद्रुमलंघन महासामर्थ्य महातेजःपुंजविराजमान स्वामिवचनसंपादित अर्जुनसंयुगसहाय कुमारब्रह्मचारिन गम्भीरशब्दोदय दक्षिणाशामार्तण्ड मेरूपर्वत पीठिकार्चन सकलमंत्रगमाचार्य मम सर्वग्रहविनाशन सर्वज्वरोच्चाटन सर्वविषविनाशन सर्वापत्तिनिवारण सर्वदुष्टनिबर्हण सर्वब्याघ्रादिभयनिवारण सर्वशत्रुच्छेदन मम परस्य च त्रिभुवन पुंस्त्रीनपुंसकात्मक सर्वजीवजातं वश्य वश्य मम आज्ञाकारकं संपादय संपादय नाना नाम धेयान् सर्वान् राज्ञः सपरिवान् मम सेवकान् कुरु कुरु सर्वशस्त्रास्त्र विषाणि विध्वंशय विध्वंसय ह्रां ह्रीं ह्रूं ह्रां ह्रां ह्रां एहि एहि ह्रसौं ह्र्स्ख्फें ह्र्स्रौं ख्र्फ्रें ह्रस्फें सर्वशत्रून् हन हन परदलानि परसैन्यानि क्षोभय क्षोभय मम सर्वकार्य जातं साधय साधय सर्वदुष्ट-दुर्जनमुखानि कीलय कीलय घे घे घे हा हा हा हुं हुं हुं फट् फट् फट् स्वाहा ।।
☀️ॐ अस्य श्रीहनुमत् कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः । अनुष्टुप् छन्दः । श्रीमहावीरो हनुमान देवता । मारुतात्मज इति बीजम् ।।ॐ अञ्जनीसूनुरिति शक्तिः ।ॐ ह्रैं ह्रां ह्रौं इति कवचम् । स्वाहा इति कीलकम् ।लक्ष्मणप्राणदाता इति बीजम् ।मम सकल कार्यसिद्ध्यर्थे जपे विनियोगः ।
☀️अथ न्यासः
करन्यास:-ॐह्रां , ॐह्रीं , ॐ ह्रूं , ॐ ह्रैं , ॐ ह्रौं , ॐ ह्रः ।।
ह्रदयान्यास:-
ॐ अञ्जनीसुनवे ह्रदयाय नमः
ॐ रूद्रमूर्तये शिरसे स्वाहा ।
ॐ वायुसुतात्मने शिखायै वषट् ।
ॐ वज्रदेहाय कवचाय हुम् । ॐ रामदूताय नेत्रत्रयाय वौषट् ।
ॐ ब्रह्मास्त्र निवारणाय अस्त्राय फट् ।।
ॐ रामदूताय विद्महे कपिराजाय धीमही ।तन्नो हनुमान् प्रचोदयात् ॐ ह्रुं फट् स्वाहा ।। इति दिग्बन्धः ।
☀️अथ ध्यानम् ।।ॐ
ॐ ऐं ह्रीं श्रीं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
ॐ ह्रीं ह्रौं ॐ नमो भगवते महाबलपराक्रमाय भूतप्रेतपिशाच शाकिनी डाकिनी यक्षिणी पूतनामारी महामारी भैरव यक्ष वेताल राक्षस ग्रहराक्षसादिकं क्षणेन हन हन भञ्जय भञ्जय मारय मारय शिक्षय शिक्षय महामाहेश्वर रुद्रावतार हुं फट् स्वाहा ।ॐ नमो हनुमदाख्याय रूद्राय सर्वदुष्टजनमुखस्तंभनं कुरू कुरू ह्रां ह्रीं ह्रूं ठं ठं ठं फट् स्वाहा ।
ॐ नमो भगवते अञ्जनीगर्भसम्भूताय रामलक्ष्मणानन्दकराय कपिसैन्यप्रकाशनाय पर्वतोत्पाटनाय सुग्रीवसाधकाय रणोच्चाटनाय कुमारब्रह्मचारिणे गम्भीरशब्दोदयाय ॐ ह्रां ह्रीं ह्रूं सर्वदुष्टनिवारणाय स्वाहा ।
ॐ नमो हनुमते सर्वग्रहानुभूतभविष्यद्वर्तमानान दूरस्थान समीपस्थान् सर्वकालदुष्टदुर्बुद्धीनुच्चाटयोच्चाटय परबलानि
क्षोभय क्षोभय मम सर्वकार्यं साधय साधय हनुमते ॐ ह्रां ह्रीं ह्रूं फट् देहि ।ॐ शिवं सिद्धं ह्रां ह्रीं ह्रूं ह्रौं स्वाहा ।
ॐ नमो हनुमते परकृतान् तन्त्रमन्त्रपराहङ्कारभूतप्रेतपिशाच परदृष्टिसर्वविघ्नदुर्जनचेटकविधान् सर्वग्रहान् निवारय निवारय
वध वध पच पच दल दल किल किल सर्वकुयन्त्राणि दुष्टवाचं फट् स्वाहा ।
ॐ नमो हनुमते पाहि पाहि एहि एहि एहि सर्वग्रहभूतानां शाकिनीडाकिनीनां विषं दुष्टानां सर्वविषयान् आकर्षय आकर्षय मर्दय मर्दय भेदय भेदय मृत्युमुत्पाटयोत्पाटय शोषय शोषय ज्वल ज्वल प्रज्वल प्रज्वल भूतमण्डलं प्रेतमण्डलं पिशाचमण्डलं निरासय निरासय भूतज्वर प्रेतज्वर चातुर्थिकज्वर विषमज्वर माहेश्वरज्वरान् छिन्द्धि छिन्द्धि भिन्द्धि भिन्द्धि अक्षिशूल-वक्षःशूल-शरोभ्यन्तरशूल-गुल्मशूल-पित्तशूल- ब्रह्मराक्षसकुल-परकुल-नागकुल-विषं नाशय नाशय निर्विषं कुरू कुरू फट् स्वाहा ।
ॐ ह्रीं सर्वदुष्टग्रहान् निवारय फट् स्वाहा ।ॐ नमो हनुमते पवनपुत्राय वैश्वानरमुखाय हन हन पापदृष्टिं षण्ढदृष्टिं हन हन हनुमदाज्ञया स्फुर स्फुर फट् स्वाहा ।
श्रीराम उवाच
हनुमान पूर्वतः पातु दक्षिणे पवनात्मजः । प्रतीच्याँ पातु रक्षोघ्न उत्तरस्यामब्धिपारगः ।।1
उदीच्यामूर्ध्वगः पातु केसरीप्रियनन्दनः । अधश्च विष्णुभक्तस्तु पातु मध्ये च पावनिः ।2
अवान्तरदिशः पातु सीताशोकविनाशनः । लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् ।।3।
सुग्रीवसचिवः पातु मस्तकम् वायुनन्दनः। भालं पातु महावीरो भ्रुवोमध्ये निरन्तरम् ।।4
नेत्रे छायाऽपहारी च पातु नः प्लवगेश्वरः । कपोलेकर्णमूले तु पातु श्रीरामकिङ्करः ।।5
नासाग्रे अञ्जनीसूनुर्वक्त्रं पातु हरीश्वरः । वाचं रूद्रप्रियः पातु जिह्वां पिङ्गललोचनः ।।6
पातु दन्तान् फाल्गुनेष्टश्चिबुकं दैत्यप्राणहृत् । ओष्ठं रामप्रियः पातु चिबुकं दैत्यकोटिहृत् ।।7
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः । भुजौ पातु महातेजाः करौ तु चरणायुधः ।।8
नखन्नखायुधः पातु कुक्षिं पातु कपीश्वरः । वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ।।9
लंकाविभञ्जनः पातु पृष्ठदेशे निरन्तरम् । नाभिञ्च रामदूतस्तु कटिं पात्वनिलात्मजः ।।10
गुह्यं पातु महाप्राज्ञः सृक्किणी च शिवप्रियः । ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ।।11
जङ्घे पातु महाबाहुर्गुल्फौ पातु महाबलः । अचलोद्धारकः पातु पादौ भास्करसन्निभः ।।12
पादान्ते सर्वसत्वाढ्यः पातु पादाङ्गुलीस्तथा । सर्वाङ्गानि महावीरः पातु रोमाणि चात्मवान् ।।13
हनुमत्कवचं यस्तु पठेद्विद्वान विचाक्षणः । स एव पुरूषश्रेष्ठो भक्तिं मुक्तिं च विन्दति ।।14
त्रिकालमेककालं वा पठेन्मासत्रयं सदा । सर्वान् रिपून् क्षणे जित्वा स पुमान् श्रियमाप्रुयात् 15
आर्किवारेऽश्वत्थमूले स्थित्वा पठति यः पुमान् । अचलां श्रियमाप्नोति सङ्ग्रामे विजयी भवेत् ।16।
☀️हनुमान उवाच ( स्कंद पुराण 46/31-62)
---------राम स्तुति ।
नमो रामाय विष्णवे प्रभविष्णवे । आदि देवाय पुराणाय गदाभृते ।।1।।
विष्ठरे पुष्पके नित्यं निविष्ठाय महात्मने । प्रहष्ठवानरानीकजुष्ठ पदाम्बुजाय ते ।2।
निष्पिष्ठ राक्षसेन्द्राय जगदिष्ठ विधायिने । नमः सहस्रशिरसे सहस्रचरणाय च ।।3।।
सहस्राक्षाय शुद्धाय राघवाय च विष्णवे । भक्तार्तिहरणे तुभ्यं सीताया पतये नमः ।।4।।
हरये नारसिंहाय दैत्यराजाय विदारिणे । नमस्तुभ्यं वराहाय दंष्टोद्धत वसुंधर ।5।।
त्रिविक्रमाय भवते बलियज्ञबिभेदिने । नमो वामन रूपाय महामन्दधारिणे ।।6।।
नमस्ते मत्स्य रूपाय त्रयीपालन कारिणे । नमः परशुरामाय क्षत्रीयान्तकराय ते ।।7।।
नमस्ते राक्षसघ्नाय नमो राघव रूपिणे । महादेवाय भीमाय महाकोदण्ड भेदिने ।8।
क्षत्रियान्तकरक्रूरभार्गवत्रासकारिणे । नमोSस्त्वहल्यासंतापहारिणे चापहारिणे ।9।
नागायुतबलेपेतताटका देहधारिणे । शिला कठिन विस्तार बालिवक्षोविभेदिने ।10।
नमो माया मृगोन्माथकारिणेSज्ञानहारिणे । दशस्यनंदन दु:खाब्धिशोषणागस्त्य रूपिणे ।11।।
अनेकोर्मितमाधूत समुद्रमदहारिणे । मैथिली मान साम्भोजभानवे लोकसाक्षिणे ।12।
राजेन्द्राय नमस्तुभ्यं जानकी पतये हरे । तारक ब्रह्मणे तुभ्यं नमो राजीवलोचन ।।13।
रामाय रामचन्द्राय वरेण्याय सुखात्मने । विश्वामित्रप्रियायेदं नमः खर विदारिणे ।14।।
प्रसीद देवदेवेश भक्तनाम भयप्रद । रक्ष मां करुणासिन्धो रामचन्द्र नमोस्तुते ते ।15।
रक्ष मां वेद वच सामप्यगोचर राघव । पाहि मां कृपया राम शरणं त्वामुपैम्हम ।16।
रघुवीर महामोहमया कुरू ममाधुना । स्नाने चाचमने भुक्तौ जाग्रत स्वप्नसुषुप्तिसु ।17।
सर्वावस्थासु सर्वत्र पाहि मां रघुनंदन । महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ।18।
त्वमेव त्वन्महत्वं वै जानसि रघुनंदन ।....स्तुत्वा वायुपुत्रो रामचंन्द्र घृणानिधिम । 19।
सीता स्तुति ।
सीतामप्यभितुष्टाय भक्तियुक्तेन चेतसा ।जानकी त्वां नमस्यामि सर्व पाप प्रणाशिनीम ।।1।।
दारिद्रयार्णवसंहर्त्री भक्तानाभिष्टदायनीम ।विदेहराजतनयां राघवानन्दकारिणीम् ।।2।।
भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् । पौलस्त्यैश्र्वर्यसंहर्त्री भक्ताभीष्टां सरस्वतीं ।3।।
पतिव्रताधुरीणां त्वां नमामि जनकात्मजां । अनुग्रह परामृद्धिमनघां हरिवल्लभां ।।4।।
आत्मविद्या त्रयीरूपा भुमारूपा नमाम्यहम् । प्रसादाभिमुखीं लक्ष्मीं क्षीराब्धितनयां शुभाम् ।5।
नमामि चन्द्रभगिनीं सीतां सर्वांङ्गसुन्दरीम् । नमामि धर्मनिलयां करूणां वेदमातरम् ।6।
पद्ममाल्यां पद्महस्तां विष्णुवक्षःस्थललालयाम् । नमामि चन्द्रनिलयां सीतां चन्द्र निभाननाम् ।7।
आह्लादरूपिणीं सिद्धिं शिवां शिवकरीं सतींम् । नमामि विश्वजननीं रामचन्द्रेष्टवल्लभाम् ।8।
सीता सर्वानवद्यांङ्गी भजामि सततं ह्रदा ।
श्री सूत उवाच:-
स्तुत्वैवं हनुमान सीतारामचन्द्रौ सभक्तिकम् ।आनन्दाश्रुपरिक्लन्नस्तूष्णीमास्ते द्विजोत्तमाः ।।1
या इदं वायुपुत्रेण कथितं पापनाशनम् । स्त्रोत्रं श्री रामचन्द्रस्य सीतायां पठतेSन्वहम् ।।2
स नरो महदैश्वर्यमश्नुते वांञ्छितं सदा ।अनेकक्षेत्रधान्यानि गाश्च दोग्ध्रीः पयस्वनी ।।3
आयुर्विद्याश्च पुत्रांश्च भार्यामपि मनोरमाम् ।एतस्तोत्रं सकृद विप्रा पठन्नप्नोत्य संशयः।।4
एतस्तोत्रस्य पाठेन नरकं नैव पश्यति । ब्रम्हहत्यादिपापानि नश्यन्ति सुमहान्त्यपि ।।5।
●●●●●
☀️श्री हनुमत्प्रोक्तं मन्त्रराजात्मक रामस्तव ☀️
तिरश्चामपि चारातिसमवायं समेयुषाम । यतः सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ।।1।।
सकृदेव प्रपन्नाय विशिष्टामैरयच्छ्रियम् । विभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ।।2।।
यो महान पूजितो व्यापी महानवै करुणामृतं । श्रुतं येन जटायोश्च महाविष्णुं नमाम्यहम् ।।3।।
तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः । प्रकाशते स्वतंन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ।।4।।
सर्वतोमुखता येन लीलया दर्शिता रणे । रक्षसां खरमुख्यानां तं वन्दे सर्वतोमुखम् ।।5।।
नृभावं यः प्रपन्नानाहिनस्ति च तथा नृषु । सिंहः सत्वेष्निवोत्कृष्टस्तं नृसिंहं नमाम्यहम् ।।6।।
यस्माद्विभ्यति वातार्कज्वलनेन्द्राः समृत्यवः । भियं तनोति पापानां भीषणं तं नमाम्यहम् ।।7।।
परस्य योग्यतापेक्षाशहितो नित्यमंगलम् । ददात्येव निजौदार्याद्यस्तं भद्रं तं नमाम्यहम् ।।8।।
यो मृत्युं निजदासानां नाशयत्यखिलेष्टदः । तत्रोदाह्रतये व्याधो मृत्यु मृत्युं नमाम्यहम् ।।9।।
यस्यपादपदमप्रणतौ भगत्युत्तमपुरूषः । तमजं सर्वदेवानां नमनीयं नमाम्यहम् ।।10।।
अहंभाव समुत्सृज्य दास्येनैव रघूत्तमम् । भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम् ।।11।।
नित्यं श्री रामभक्तस्य किंकरा यमकिंकराः । शिवमयो दिशस्तस्य सिद्धयस्तस्य दासिकाः।।12।।
इमं हनुमताप्रोक्तं मन्त्रराजात्मकं स्तवम् । पठत्यनुदिनं यस्तु स रामे भक्तिमान भवेत् ।।13।।
☀️श्रीरामतापनी उपनिषद ☀️
कामरूपाय रामाय नमो मायामयाय च नमो वेदादिरूपाय ॐकाराय नमो नमः ।
रमाधराय रामाय श्रीरामआत्ममूर्तये, जानकी देहभूषाय रक्षोघ्नाय शुभाङ्गिने ।

भद्राय रघुवीराय दशास्यान्तक रूपिणे, रामभद्रमहेश्वास रघुवीर नृपोत्तम ।भो दशास्यान्तकं रक्षां देहि श्रियं च ते ।।
- ☀️हरिःॐ तत्सत ☀️
- हिन्दी
इससे हानि लाभ बताऐं
ReplyDeleteजय श्री राधे
Deleteहानि कुछ भी नहीं लाभ भक्ति के साथ आत्मबोध का लाभ ।