Posts

शिव कवचम्

शिवकवचं अमोघशिवकवचं च  श्रीसाम्बासदाशिवकवचस्तोत्रम् श्रीगणेशाय नमः । ॥ अथ शिवकवचम् ॥ विनियोगः । अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः, var वृषभ ऋषिः, अनुष्टुप्छन्दः, श्रीसदाशिवरुद्रो देवता, ह्रीं शक्तिः, वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्, श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥ ॥ ऋष्यादिन्यासः ॥ ॐ ब्रह्मऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः, मुखे । श्रीसदाशिवरुद्रदेवताय नमः हृदि । ह्रीं शक्तये नमः, पादयोः । वं कीलकाय नमः नाभौ । श्री ह्रीं क्लीमिति बीजाय नमः गुह्ये । विनियोगाय नमः, सर्वाङ्गे ॥ ॥ अथ करन्यासः ॥ see another version at the end ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने

श्रीशिवरक्षास्तोत्रम्

  श्रीशिवरक्षास्तोत्रम् श्री गणेशाय नमः ॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥ श्री सदाशिवो देवता ॥ अनुष्टुप् छन्दः ॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४॥ श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५॥ हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः ॥ उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७॥ जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ॥ चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८॥ एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९॥ ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये

श्रीसदाशिवकवचम्

  सदाशिवकवचम् ।।अथ चतुःसप्ततितमः पटलः श्रीआनन्दभैरव उवाच शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते । सर्वं मे कथितं देवि कवचं न प्रकाशितम् ॥ ७४-१॥ प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सदाशिवमहादेवभावितं सिद्धिदायकम् ॥ ७४-२॥ अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् । सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥ ७४-३॥ श्रीआनन्दभैरवी उवाच श्रूयतां भगवन्नाथ महाकाल कुलार्णव । प्रासादमन्त्रकवचं सदाशिवकुलोदयम् ॥ ७४-४॥ प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः । पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥ ७४-५॥ साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥ ७४-६॥ षडक्षरस्वरूपो मे वदनं तु महेश्वरः । अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥ ७४-७॥ पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥ ७४-८॥ वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ ७४-९॥ द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु । त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ७४-१०॥ चिन्तामणिर्बीजरूपोऽर्धनारीश्वर
  ॥ अथ श्री रुद्रकवचम् ॥ ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्राम् बीजम् श्रीम् शक्तिः ह्रीम् कीलकम् मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥ ॥ ध्यानम् ॥ शांतम् पद्मासनस्थम् शशिधरमकुटम् पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम् परशुमभयदम् दक्षभागे महन्तम् । नागम् पाशम् च घंटाम् प्रळय हुतवहम् सांकुशम् वामभागे नानालंकारयुक्तम् स्फटिकमणिनिभम् पार्वतीशम् नमामि ॥ ॥ दूर्वास उवाच ॥ प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् । एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम् । रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये । अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा ॥ रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा । शिरोमे ईश्वरः पातु ललाटम् नीललोहितः । नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः । कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः । वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः । श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत् । हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् । नाभिम् कटिम् च वक्षश

श्रीललितोपनिषद

 ☀️।।श्रीललितोपनिषत् ॥☀️ ॥ श्रीललितात्रिपुरसुन्दर्यै नमः ॥ ॐ परमकारणभूता शक्तिः केन नवचक्ररूपो देहः । नवचक्रशक्तिमयं श्रीचक्रम् । पुरुषार्थाः सागराः । देहो नवरत्ने द्वीपः । आधारनवकमुद्राः शक्तयः । त्वगादिसप्तधातुभिरनेकैः संयुक्ताः सङ्कल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् ॥ रसनया भासमाना मधुराम्लतिक्तकटुकषायलवणरसाः षड्रसाः । क्रियाशक्तिः पीठं कुण्डलिनी ज्ञानशक्तिरहमिच्छाशक्तिः । महात्रिपुरसुन्दरी ज्ञाता होता । ज्ञानमर्घ्यं ज्ञेयं हविः ज्ञातृज्ञानज्ञेयानां नमोभेदभावनं श्रीचक्रपूजनम् ॥ नियतिसहितशृङ्गारादयो नवरसाः । अणिमादयः कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्यादयोऽष्टशक्तयः । आधारनवकमुद्रा शक्तयः । पृथ्व्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वा- प्राणवाक्पाणिपादपायूपस्थमनोविकाराः षोडशशक्तयः । वचनादानगमनविसर्गानन्दादानोपादानोपेक्षा- बुद्धयोऽनङ्गकुसुमादिशक्तयोऽष्टौ । अलम्बुषाकुहूविश्वोदरीवरुणाहस्तिजिह्वायशस्विनी- गान्धारीपूषासरस्वतीडापिङ्गलासुषुम्ना चेति चतुर्दशनाडयः सर्वसङ्क्षोभिण्यादिचतुर्दशारदेवताः ॥ प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जया दशवायवः सर्वसिद्धिप्रदादि बहिर

श्रद्धा भक्ति आश्रम हरिद्वार

 हरिद्वार  श्रद्धा भक्ति आश्रम ज्ञान लोक कालोनी विश्वकर्मा घाट के सामने कनखल हरिद्वार 7909641191 श्रद्धा भक्ति आश्रम https://maps.app.goo.gl/AWdEPebpz5S6N4Pf6 जय श्री राधे  हरिद्वार में रूकने, संत सेवा व गौसेवा के लिए संपर्क करें । श्रद्धा भक्ति आश्रम https://maps.app.goo.gl/AWdEPebpz5S6N4Pf6

मो सम दीन ----सभी दोहे श्रेष्ठ स्तुति

।।दोहा स्तुति ।। मो सम दीन न दीन हित , तुम समान रघुवीर ।  अस विचारि रघुवंश मनि हरहु विषम भवभीर ।।1  कामहि नारि पियारि जिमि लोभिहि प्रिय जिमि दाम ।  तिमि रघुनाथ निरन्तर प्रिय लागहु मोहि राम ।।2  प्रनतपाल रघुवंशमनि करुनासिन्धु खरारि ।  गये शरण प्रभु राखिहहिं सब अपराध विसारि ।।3  श्रवन सुजस सुनि आयउँ प्रभु भंजन भव भीर ।  त्राहि त्राहि आरति हरन शरण सुखद रघुबीर ।।4  अरथ न धरम न काम रुचि गति न चहउँ निरवान ।  जनम जनम रति राम पद यह वरदानु न आन ।।5  बार - बार बर मागउँ हरषि देहु श्री रंग ।  पद सरोज अनपायनी भगति सदा सतसंग ।।6  बरनि उमापति राम गुन हरषि गये कैलास ।  तब प्रभु कपिन दिवाए सबविधि सुखप्रद वास ।।7  एक मंद मैं मोहबस कुटिल हृदय अग्यान ।  पुनि प्रभु मोहि बिसारेउ दीनबन्धु भगवान ।।8  बिनती करि मुनि नाव सिर कह कर जोरि बहोरि ।  चरन सरोरुह नाथ जनि कबहु तजै मति मोरि ।।9  नहिं विद्या नहिं बाहु बल नहिं खर्चन कछु दाम ।  मोसे पतित पतंग के तुम पति राखो राम ।।10 एक छत्र एक मुकुट मनि सब वर्णन परि जोऊ ।  तुलसी रघुवर नाम के बरन बिराजत दोऊ ।।11  कोटि कल्प काशी बसै , मथुरा कल्प निवास ।  एक निमिष सरजू बसै तु

लक्ष्मीनारायण हृदय स्तोत्रम्

                          ॥ श्रीयै नमः ॥               ॥ श्रीमते नारायणाय नमः ॥                  अथर्वरहस्ये उत्तर खण्डे                ॥ श्री नारायण हृदयम्  ॥                          ॥ ॐ तत्सत् ॥                             ॥ नारायण हृदयम् ॥ हरिः ओम् ॥ अस्य श्रीनारायण-हृदय-स्तोत्र-महामंत्रस्य भार्गव ऋषिः, अनुष्टुप्छन्दः, लक्ष्मीनारायणो देवता, नारायण-प्रीत्यर्थे जपे विनियोगः ॥                      ॥ करन्यासः ॥          नारायणः परं ज्योतिरिति अङ्गुष्ठाभ्यां नमः,          नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः,          नारायणः परो देव इति मध्यमाभ्यां नमः,          नारायणः परं धामेति अनामिकाभ्यां नमः,          नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः,          विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः ॥                    ॥ अङ्गन्यासः ॥          नारायणः परं ज्योतिरिति हृदयाय नमः,          नारायणः परं ब्रह्मेति शिरसे स्वाहा,          नारायणः परो देव इति शिखायै वौषट्,          नारायणः परं धामेति कवचाय हुम्,          नारायणः परो धर्म इति नेत्राभ्यां वौषट्,          विश्वं नारायण इति अस्त्राय फ

श्री सिद्धिलक्ष्मी स्तोत्रम्

 सिद्धिलक्ष्मीस्तोत्रम्  श्री गणेशाय नमः ।  ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः,श्री महाकालीमहालक्ष्मीमहासरस्वतीदेवताः  सिद्धिलक्ष्मीर्देवता,  श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकम्    मम समस्त दुःखक्लेशपीऐडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं सर्व कार्यसिध्यर्थं  महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः । ॠष्यादिन्यास । ॐ हिरण्यगर्भं ऋषये नमः शिरसि। अनुष्टुप छंदसे नमः मुखे। महाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः हृदि। ॐ श्रीं बीजाय नमः गुह्ये। ॐ ह्रीं शक्तये नमः पादयो । ॐ क्लीं कीलकाय नमः नाभौ । विनियोगाय नमः सर्वांगेषु। करन्यास।  ॐ सिद्धिलक्ष्म्यै  अङ्गुष्ठाभ्यां नमः ।  ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः ।  ॐ क्लीं अमृतानन्दायै  मध्यमाभ्यां नमः ।  ॐ श्रीं दैत्यमालिन्यै  अनामिकाभ्यां नमः ।  ॐ ह्रीं तं तेजःप्रकाशिन्यै  कनिष्ठिकाभ्यां नमः ।  ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नमः ।  एवं हृदयादिन्यासः ।  ॐ ह्रीं  सिद्धिलक्ष्मी हृदयाय नमः ।  ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।  ॐ

ब्रह्मणस्पतिसूक्तम् ऋग्वेद ।।

॥ ब्रह्मणस्पतिसूक्तम् सस्वर ॥ ऋग्वेदान्तर्गतम् ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ॥ २.०२३.०१॥ सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः ॥ १.०१८.०१ ॥ १ यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । स नः॑ सिषक्तु॒ यस्तु॒रः ॥ १.०१८.०२॥ २ मा नः॒ शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते ॥ १.०१८.०३॥ ३ स घा॑ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ । सोमो॑ हि॒नोति॒ मर्त्य॑म् ॥ १.०१८.०४॥ ४ त्वं तं ब्र॑ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य॑म् । दक्षि॑णा पा॒त्वंह॑सः ॥ १.०१८.०५॥ ५ उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे । उप॒ प्र य॑न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥ १.०४०.०१॥ ६ त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते । सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥ १.०४०.०२॥ ७ प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ॥