श्री सिद्धिलक्ष्मी स्तोत्रम्

 सिद्धिलक्ष्मीस्तोत्रम् 


श्री गणेशाय नमः । 

ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः,श्री महाकालीमहालक्ष्मीमहासरस्वतीदेवताः  सिद्धिलक्ष्मीर्देवता, 

श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकम्    मम समस्त दुःखक्लेशपीऐडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं सर्व कार्यसिध्यर्थं  महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः ।

ॠष्यादिन्यास ।


ॐ हिरण्यगर्भं ऋषये नमः शिरसि।

अनुष्टुप छंदसे नमः मुखे।

महाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः हृदि।

ॐ श्रीं बीजाय नमः गुह्ये।

ॐ ह्रीं शक्तये नमः पादयो ।

ॐ क्लीं कीलकाय नमः नाभौ ।

विनियोगाय नमः सर्वांगेषु।


करन्यास।

 ॐ सिद्धिलक्ष्म्यै  अङ्गुष्ठाभ्यां नमः ।

 ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । 

ॐ क्लीं अमृतानन्दायै  मध्यमाभ्यां नमः ।

 ॐ श्रीं दैत्यमालिन्यै  अनामिकाभ्यां नमः ।

 ॐ ह्रीं तं तेजःप्रकाशिन्यै  कनिष्ठिकाभ्यां नमः ।

 ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नमः ।


 एवं हृदयादिन्यासः ।

 ॐ ह्रीं  सिद्धिलक्ष्मी हृदयाय नमः । 

ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।

 ॐ क्लीं अमृतानन्दे शिखायै वौषट् । 

ॐ श्रीं दैत्यमालिनी कवचाय हुम् । 

ॐ ह्रीं  तं तेजःप्रकाशिनी नेत्रत्रयाय वौषट् । 

ॐ ह्रीं क्लीं श्रीं ब्राह्मीं वैष्णवीं माहेश्वरी फट् ॥

 

ॐ श्रीं ह्रीं क्लीं सिद्धलक्ष्म्यै नमः ।

तालत्रयं च दिग्बंधनं कुर्यात्।

अथ ध्यानम् ॥ 

ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् ।

 त्रिनेत्रां खड्ग  त्रिशूलां च पद्मचक्रगदाधराम् ॥ १॥

 पीताम्बरधरां देवीं नानालङ्कार भूषिताम् ।

 तेजःपुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ २॥

स्तोत्रम् ।

 ॐकारलक्ष्मीरूपेण विष्णोर्हृदयमव्ययम् ।

 विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणीम्  ॥ १॥

 ॐ क्लीं अमृतानन्दभद्रे सद्य आनन्ददायिनी ।

 ॐ श्रीं दैत्यभक्षरदां शक्तिमालिनी शत्रुमर्दिनी ॥ २॥

 तेजःप्रकाशिनी देवी वरदा शुभकारिणी ।

 ब्राह्मी च वैष्णवी भद्रा कालिका रक्तशाम्भवी ॥ ३॥

 आकारब्रह्मरूपेण उकारं विष्णुमव्ययम् ।

मकारे पुरुषोऽव्यक्तो देवी प्रणवउच्यते ।। ४।।

 सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् ।

 तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ ५॥

 ॐकारपरमानन्दं क्रियते सुखसम्पदा ।

सिद्धिलक्ष्मि परालक्ष्मि(मोक्षलक्ष्मी) लक्ष्यलक्ष्मि (आद्य लक्ष्मी ) नमोऽस्तुते॥६॥

 सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्रयम्बकं गौरी नारायणीनमोस्तुते ।।७।।

 प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा ।

 तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥ ८॥

 पञ्चमे विष्णुपत्नी च षष्ठे च कात्यायनी  तथा ।

 सप्तमे च वरारोहा अष्टमे वरदायिनी ( हरिवल्लभा) ॥ ९॥ 

नवमे खड्गत्रिशूला दशमे देवदेवता । 

एकादशे सिद्धिलक्ष्मीर्द्वादशे ललितात्मिका (हंसवाहिनी) ॥ १०॥

 एतत्स्तोत्रं पठन्तस्त्वां स्तुवन्ति भुवि मानवाः ।

 सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा ॥ ११॥

 एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् ।

 पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः ॥ १२॥

 ब्राह्मणाः क्लेशतो दुःखदरिद्रा भयपीडिताः ।

 जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः ॥ १३॥

 अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम् ।

 धन्यं यशस्यमायुष्यं वह्निचौरभयेषु च ॥ 

 शाकिनीभूतवेतालसर्वव्याधिनिपातके । 

राजद्वारे महाघोरे सङ्ग्रामे रिपुसङ्कटे ॥ १४॥

 सभास्थाने श्मशाने च कारागेहारिबन्धने ।

 अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः ॥ 

 ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम् ।

 स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते ॥ १५॥

 या श्रीः पद्मवने कदम्बशिखरे राजगृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । 

शङ्खे देवकुले नरेन्द्रभवनी गङ्गातटे गोकुले सा श्रीस्तिष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥ १६॥


 ॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे दारिद्र्यनाशनं सिद्धिलक्ष्मीस्तोत्रं सम्पूर्णम् ॥


Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता