श्रीसदाशिवकवचम्

 

सदाशिवकवचम्

।।अथ चतुःसप्ततितमः पटलः श्रीआनन्दभैरव उवाच शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते । सर्वं मे कथितं देवि कवचं न प्रकाशितम् ॥ ७४-१॥ प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सदाशिवमहादेवभावितं सिद्धिदायकम् ॥ ७४-२॥ अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् । सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥ ७४-३॥ श्रीआनन्दभैरवी उवाच श्रूयतां भगवन्नाथ महाकाल कुलार्णव । प्रासादमन्त्रकवचं सदाशिवकुलोदयम् ॥ ७४-४॥ प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः । पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥ ७४-५॥ साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥ ७४-६॥ षडक्षरस्वरूपो मे वदनं तु महेश्वरः । अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥ ७४-७॥ पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥ ७४-८॥ वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ ७४-९॥ द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु । त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ७४-१०॥ चिन्तामणिर्बीजरूपोऽर्धनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ ७४-११॥ एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः । मार्तण्डो भैरवो नित्यं पादौ मे परिरक्षतु ॥ ७४-१२॥ तुम्बुराख्यो महाबीजस्वरूपस्त्रिपुरान्तकः । सदा मारणभूमौ च रक्षतु त्रिदशाधिपः ॥ ७४-१३॥ ऊर्ध्वमूर्ध्वानमीशानो मम रक्षतु सर्वदा । दक्षिणास्यं तत्पुरुषोऽवतु मे गिरिनायकः ॥ ७४-१४॥ अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु । वामदेवः पश्चिमास्यं सदा मे परिरक्षतु ॥ ७४-१५॥ उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् । मृत्युजेता सदा पातु जलेऽरण्ये महाभये ॥ ७४-१६॥ पर्वते विषमस्थाने विषहर्ता सदाऽवतु । कालरुद्रः सदा पातु सर्वाङ्गं कालदेवता ॥ ७४-१७॥ कालाग्निरुद्रः सम्पातु महाव्याधिभयादिषु । अकालतारकः पातु खड्गधारी सदाशिवः ॥ ७४-१८॥ कवची वामदेवश्च सदा पातु महाभये । कालभक्षः पातु रुद्रो रुरुकः क्षेत्रपालकः ॥ ७४-१९॥ मातृकामण्डलं पातु सम्पूर्णचन्द्रशेखरः । चिरायुः शाकिनीभर्ता चायुषं पातु मे सदा ॥ ७४-२०॥ सिंहस्कन्धः सदा पातु रुद्राणीवल्लभोऽवतु । भालं पातु वज्रदम्भालेखकः क्रान्तिरूपकः ॥ ७४-२१॥ निरूपकः सदा पातु खेचरीखेचरप्रियः । रत्नमालाधरः पातु रक्तमुखीश्वरोऽवतु ॥ ७४-२२॥ वदनं चक्षुषी कर्णौ पातु पञ्चाननो मम । वेदध्वनिः सदा पातु नासारन्ध्रद्वयं मम ॥ ७४-२३॥ कपालधारकः पातु गण्डयुग्मं युगान्तकृत् । रक्तजिह्वापतिः पातु ममोष्ठाधरवासिनम् ॥ ७४-२४॥ दन्तावलियुगं पातु भृगुरामेश्वरः शिवः । तालुमूलं सदा पातु विश्वभोजी रसामृतम् ॥ ७४-२५॥ जिह्वाग्रं वाक्पतीशश्च भवानीशः शिवो मम । मुखवृत्तं सदा पातु महासेनः कवीश्वरः ॥ ७४-२६॥ क्रोधनाथः सदा पातु दक्षहस्तादिमूलकम् । दक्षकूर्परमापातु तदग्रं कुक्कुरेश्वरः ॥ ७४-२७॥ चिरजीवी सदा पातु चाङ्गुलीमूलदेशकम् । अङ्गुल्यग्रं सदा ब्रह्मा ब्रह्मलिङ्गधरः प्रभुः ॥ ७४-२८॥ विद्यापतिः पार्वतीशो वामहस्तादिमूलकम् । पातु वामकूर्परं मे वामकेश्वर ईश्वरः ॥ ७४-२९॥ कुण्डवासी सदा पातु कूर्पराग्रं कुलाचलः । वेदमातृपतिः पातु कामधेनुपतिः प्रभुः ॥ ७४-३०॥ ममाङ्गुलीमूलदेशं पातु पञ्चमुखो मम । वामाङ्गुल्यग्रभागं मे पातु पर्वतपूजितः ॥ ७४-३१॥ तनुमूलाग्रभागं मे कूर्मचक्रधरः प्रभुः । शाकिनीवल्लभः पातु दक्षाङ्घ्रिमध्यदेशकम् ॥ ७४-३२॥ गुल्फाग्रं गर्गरीनाथः पादाग्रं मूलदेवता । अभयावल्लभः पातु दक्षाङ्गुल्यग्रभागकम् ॥ ७४-३३॥ पातु स्मरहरो योगी वामोरुमूलदेशकम् । वामपादमध्यदेशं मध्यदेशेश्वरोऽवतु ॥ ७४-३४॥ पातु मे भगवाञ्छम्भुर्मम गुल्फाग्रदेशकम् । मूलदेशं वामपादं पातु मेऽङ्गुष्ठमूलकम् ॥ ७४-३५॥ कारणात्मा नीलकण्ठः प्रभाधारी यमान्तकः । अङ्गुष्ठाग्रं सदा पातु सुषुम्नानाडिकेश्वरः ॥ ७४-३६॥ महारुद्रेश्वरः पातु मम नाभिमनोभवम् । उदरं गगनाधारः कामहर्ता हृदम्बुजम् ॥ ७४-३७॥ सर्वानन्दात्मकः पातु मम स्कन्धयुगं शिवः । हृदयाद् दक्षहस्ताग्रपर्यन्तं पातु शोकहा ॥ ७४-३८॥ हृदयाद् वामहस्ताग्रपर्यन्तं परमेश्वरः । हृदयान्मम दक्षाङ्घ्रिनखान्तं मे शिवोऽवतु ॥ ७४-३९॥ सदानन्दा सदा पातु हृदाद्यङ्घ्रिं तु उन्मदः । वासुकीवल्लभः पातु हृदादिगुददेशकम् ॥ ७४-४०॥ अनन्तनाथ आपातु हृदादिमूर्धदेशकम् । व्यापकः सर्वदा पातु सदाशिव उमापतिः ॥ ७४-४१॥ तारात्मकः कायसिद्धः शक्तीशः शुक्रदेवता । पञ्चचूडः सदा पातु पञ्चतत्त्वाङ्गरूपकम् ॥ ७४-४२॥ शीर्षादिपादपर्यन्तं कामधेनुः सदाऽवतु । जलेऽरण्ये घोरवने सङ्कटे च महापथे ॥ ७४-४३॥ प्रान्तरे पातु गुप्ताक्षः कामराजः परापरः । अर्धनारीश्वरः पातु मातृकापरमेश्वरः ॥ ७४-४४॥ मातृकामन्त्रपुटितः स्वस्वस्थानं सदावतु । धर्मात्मा धर्मसन्धिं मे पिङ्गलां पातु चण्डिकाम् ॥ ७४-४५॥ विह्वलः सर्वदा पातु भोलानाथः सदाऽवतु । सर्वदेशे सर्वपीठे कामरूपे विशेषतः ॥ ७४-४६॥ सर्वदा योगिनीनाथः परमात्मा सदाऽवतु । कामरूपाख्यपीठादि पञ्चाशत् पीठदेवताः ॥ ७४-४७॥ पञ्चाशत्पीठमाया तु कामरूपं सदाशिवः । भवो रुद्रो महेशश्च शङ्करो मन्मथान्तकः ॥ ७४-४८॥ गुह्यकेशः पापहर्ता कपाली शूलधारकः । पञ्चवक्त्रो दशभुजो भुजङ्गभूषणो हरः ॥ ७४-४९॥ महाकालो महारुद्रो महावीरो हृदि स्थितः । महादेवो महागुह्यो महामाया महागुणः ॥ ७४-५०॥ पशुपतिर्विरूपाक्षो हरीशो धवलेश्वरः । वटुकेशः क्रमाचार्यः पञ्चशूली हृदुद्भवः ॥ ७४-५१॥ उन्मनीशः साहसिकः पराख्यः पर्वतेश्वरः । सर्वात्मा च महात्मा च शिवात्मा च श्मशानगः ॥ ७४-५२॥ क्रोधवीरः कालकारी सूक्ष्मधर्मा धुरन्धरः । श्यामकः क्रूरहर्ता च गणेशः कालमाधवः ॥ ७४-५३॥ ज्ञानात्मा कपिलात्मा च सिद्धात्मा योगिनीपतिः । कोटिसूर्यप्रतीकाश एकपञ्चाशदीश्वराः ॥ ७४-५४॥ सदा पान्तु मातृकस्थाः स्थितिसर्गलयात्मकाः । आदिपीठं कामरूपं काञ्चीपीठं तदन्तिके ॥ ७४-५५॥ अयोध्यापीठनगरं तदूर्ध्वे जालकन्धरम् । जालन्धरं तदूर्ध्वे तु सिद्धपीठं तदन्तिके ॥ ७४-५६॥ कालीपीठं तदूर्ध्वे तु चण्डिकापीठमग्रके । अष्टपुरीमहापीठं कण्ठदेशं सदाशिवः ॥ ७४-५७॥ सदा पातु महावीरः कालधर्मी परात्परः । मधुपुरीमहापीठं चाष्टपुरान्तरस्थितम् ॥ ७४-५८॥ मायावतीमहापीठं तदूर्ध्वे परिकीर्तितम् । वाराणसीमहापीठं धर्मपीठं तदन्तिके ॥ ७४-५९॥ ज्वालामुखीमहापीठं तदन्तःस्थं प्रकीर्तितम् । तदूर्ध्वे च महापीठं ज्वलन्तीपीठमेव च ॥ ७४-६०॥ तदूर्ध्वे पूणगिर्याख्यं कुरुक्षेत्रं तदन्तिके । उड्डियानं तदूर्ध्वे तु कमलापीठमेव च ॥ ७४-६१॥ हरिद्वारं महापीठं बदरीपीठमेव च । व्यासपीठं नारदाख्यं तदूर्ध्वे वाडवानलम् ॥ ७४-६२॥ हिङ्गुलादं तदूर्ध्वे तु लङ्कापीठं तदूर्ध्वके । तदूर्ध्वे शारदापीठं रतिपीठं तदूर्ध्वके ॥ ७४-६३॥ लिङ्गपीठं कलापीठं द्वारकापीठमेव च । कपालपीठं हर्याख्ये वरदापीठमुत्तरे ॥ ७४-६४॥ कालीपीठं तदूर्ध्वे तु तारापीठं तदूर्ध्वके । उग्रतारामहापीठं महोग्रापीठमेव च ॥ ७४-६५॥ नीलसरस्वतीपीठं जरापीठं तदूर्ध्वके । तदूर्ध्वे गगनापीठं खेचरीपीठमेव च ॥ ७४-६६॥ तदूर्ध्वे तारिणीपीठं सहस्रदलमध्यके । कर्त्रीपीठं तदूर्ध्वे च देवीपीठं तदूर्ध्वके ॥ ७४-६७॥ राजराजेश्वरीपीठं षोडशीपीठमेव च । सहस्रदलमध्ये तु सहस्रपीठमेव च ॥ ७४-६८॥ मध्ये एकजटापीठं कर्त्रीतीरकलोपरि । षोडशीमुखविद्याभिर्वेष्टिता तारिणीकला ॥ ७४-६९॥ काली नीला महाविद्या त्वरिता छिन्नमस्तका । वाग्वादिनी चान्नपूर्णा देवी प्रत्यङ्गिरा पुनः ॥ ७४-७०॥ कामाख्या वासली बाला मातङ्गी शैलवासिनी । षोडशी भुवनेशानी भैरवी बगलामुखी ॥ ७४-७१॥ धूमावती वेदमाता हरसिद्धा च दक्षिणा । एता विद्या महाविद्याः शिवसेवनशोभिताः ॥ ७४-७२॥ द्वाविंशतिमहाविद्या द्वारं द्वाविंशतिस्थलम् । महापीठे सहस्रारे सर्वदा पान्तु मां कलाः ॥ ७४-७३॥ सदाशिवः शक्तियुक्तः पातु चण्डेश्वरो हरः । पञ्चामराधरः पातु देवीनाथः सदाऽवतु ॥ ७४-७४॥ पार्वतीप्राणनाथो मे सर्वाङ्गं पातु सर्वदा । अघोरनाथ ईशानो वरदो मदनान्तकः ॥ ७४-७५॥ यज्ञहर्ता दक्षखण्डो वीरभद्रो दिगम्बरः । अष्टादशभुजो रौद्रो नीलपङ्कजलोचनः ॥ ७४-७६॥ त्रिलोचनः कालकामो महारुद्रो गणेश्वरः । काकिनीवल्लभः शूली योगकर्ता महेश्वरः ॥ ७४-७७॥ वागीश्वरः स्मरहरो महामन्त्रो हलायुधः । श्रीनाथः पूजितो बालो बालेन्द्रो बलवाहनः ॥ ७४-७८॥ बलरामः कृष्णरामो गोविन्दो माधवीश्वरः । जितामित्रेश्वरश्चूडामणीशो मानदः सुखी ॥ ७४-७९॥ मुखं वृन्दावनं पातु षड्दलाम्भोरुहस्थितम् । वैष्णवीवल्लभः पातु ब्रह्माणं कुलकुण्डली ॥ ७४-८०॥ विष्णुनाथः सदा पातु ब्रह्माग्निं गरुडध्वजः । ज्वालामालाधरः पातु कालानलधरोऽवतु ॥ ७४-८१॥ काकिनीवल्लभः पातु ईश्वरो भैरवेश्वरः । महारुद्रो नीलकण्ठो मणिपूरं सुलाकिनीम् ॥ ७४-८२॥ सदा पातु मणिगृहं रुद्राणीप्रियवल्लभः । महारुद्रो नीलकण्ठो महाविष्णुं सदावतु ॥ ७४-८३॥ राकिणीं विष्णुलक्ष्मीं च पातु मे वैष्णवीं कलाम् । सदाशिवो नीलकण्ठो मम पातु हृदि स्थलम् ॥ ७४-८४॥ ईश्वरं परमात्मानं मम रक्षतु शाकिनीम् । सदाशिवं सदा पातु द्विदलस्थोऽपरो हरः ॥ ७४-८५॥ हाकिनीशक्तितः पातु सहस्रारं शिवोऽवतु । तारानाथविधिः पातु सहस्रारनिवासिनीम् ॥ ७४-८६॥ महाकाशं सदा पातु तदधो वायुमण्डलम् । वह्निमण्डलमापातु तदधः शाकिनीश्वरः ॥ ७४-८७॥ तदात्मकः सदा पातु कीलालं कौलदेवता । पृथिवीं पार्थिवः पातु सर्वदैकं सदाशिवः ॥ ७४-८८॥ इत्थं रक्षाकरं नाथ कवचं देवदुर्लभम् । प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ॥ ७४-८९॥ पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः । कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् ॥ ७४-९०॥ अप्रकाश्यं महावीरकवचं सर्वसिद्धिदम् । ज्ञानमात्रेण भूर्लोके जेता कालस्य योगिराट् ॥ ७४-९१॥ अस्य धारणमात्रेण कालसूत्रान्तको भवेत् । अस्य धारणपाठेन सर्वज्ञो भवति ध्रुवम् ॥ ७४-९२॥ सर्वे व्यासवशिष्ठादिमहासिद्धाश्च योगिनः । पठित्वा धारयित्वा ते प्रधानास्तत्त्वचिन्तकाः ॥ ७४-९३॥ कण्ठे यो धारयेदेतत् कवचं त्वत्स्वरूपकम् । मद्वक्त्राम्भोरुहोद्भूतं विद्यावाक्सिद्धिदायकम् ॥ ७४-९४॥ युद्धे विजयमाप्नोति द्यूते वादे च साधकः । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ ७४-९५॥ देवा मनुष्या गन्धर्वास्तस्य वश्या न संशयः । कवचं शिरसा यस्तु धारयेद् यतमानसः ॥ ७४-९६॥ करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः । भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् ॥ ७४-९७॥ रजतोदरसंविष्टां कृत्वा च धारयेत् सुधीः । संप्राप्य महतीं लक्ष्मीमन्ते तव शरीरधृक् ॥ ७४-९८॥ यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ७४-९९॥ योगिने ज्ञानयुक्ताय देयं धर्मात्मने सदा । अन्यथा सिद्धिहानिः स्यात्सत्यं सत्यं न संशयः ॥ ७४-१००॥ तव स्नेहान्महादेव कथितं कवचं शुभम् । न देयं कवचं सिद्धं यदीच्छेदात्मनो हितम् ॥ ७४-१०१॥ यदि भाग्यफलेनापि कवचं यदि लभ्यते । धूर्तो वा कपटी वापि खलो वा दुर्ग्रहस्थितः ॥ ७४-१०२॥ निजकर्मफलत्यागमवश्यं खलु कारयेत् । तदा सिद्धिमवाप्नोति धर्मधाराधरो भवेत् ॥ ७४-१०३॥ सिद्धिपूजाफलं तस्य दिवसे दिवसे सुधीः । धूर्ततां खलतां मिथ्यां कापट्यं स विहाय च ॥ ७४-१०४॥ राजराजेश्वरो भूत्वा जीवन्मुक्तो न संशयः । योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् ॥ ७४-१०५॥ तेनार्चिता महादेव सर्वदेवा न संशयः । राजसिकं मानसिकं तामसिकं परन्तपः ॥ ७४-१०६॥ हृद्ये मानसिकं ध्यायन् पूजा राजसिकं स्मृतम् । तामसिकं लोकमध्ये कवचार्चा त्रिधा मता ॥ ७४-१०७॥ सिद्धकवचमाख्यातं केवलं ज्ञानसिद्धये । मोक्षाय जगतां शम्भोः प्रियाय परमेश्वर ॥ ७४-१०८॥ तन्त्रेऽस्मिन् सारसङ्केतं पूजाऽप्यारोपणादिकम् । अन्तःकरणमध्ये तु सर्वकार्यमुदीरयेत् ॥ ७४-१०९॥ राज्ये च प्रपठेत् स्तोत्रं कवचं ज्ञानसिद्धये । इति ते कथितं नाथ परमात्मनि मङ्गलम् ॥ ७४-११०॥ यस्याराधनमात्रेण शिवत्वमुत किं प्रभो ॥ ७४-१११॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे सदाशिवकवचपाठो नाम चतुःसप्ततितमः पटलः ॥ ७४॥

Comments

Popular posts from this blog

सर्व कार्य हेतु सिद्ध मंत्र

नारायणास्त्र

ब्रह्म संहिता