श्री सिद्धिलक्ष्मी स्तोत्रम्
सिद्धिलक्ष्मीस्तोत्रम् श्री गणेशाय नमः । ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः,श्री महाकालीमहालक्ष्मीमहासरस्वतीदेवताः सिद्धिलक्ष्मीर्देवता, श्रीं बीजं ह्रीं शक्तिः क्लीं कीलकम् मम समस्त दुःखक्लेशपीऐडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं सर्व कार्यसिध्यर्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः । ॠष्यादिन्यास । ॐ हिरण्यगर्भं ऋषये नमः शिरसि। अनुष्टुप छंदसे नमः मुखे। महाकालीमहालक्ष्मीमहासरस्वतीदेवताभ्यो नमः हृदि। ॐ श्रीं बीजाय नमः गुह्ये। ॐ ह्रीं शक्तये नमः पादयो । ॐ क्लीं कीलकाय नमः नाभौ । विनियोगाय नमः सर्वांगेषु। करन्यास। ॐ सिद्धिलक्ष्म्यै अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । ॐ क्लीं अमृतानन्दायै मध्यमाभ्यां नमः । ॐ श्रीं दैत्यमालिन्यै अनामिकाभ्यां नमः । ॐ ह्रीं तं तेजःप्रकाशिन्यै कनिष्ठिकाभ्यां नमः । ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ॐ ह्रीं सिद्धिलक्ष्मी हृदयाय नमः । ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा । ॐ