Posts

गणेश कवच

॥ एकाक्षरगणपतिकवचम् ॥ त्रैलोक्यमोहनकवचम् । श्रीगणेशाय नमः । नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूजितो यः सुरैरपि ॥ १॥ पार्वत्युवाच । भगवन् देवदेवेश लोकानुग्रहकारकः । इदानी श्रोतृमिच्छामि कवचं यत्प्रकाशितम् ॥ २॥ एकाक्षरस्य मन्त्रस्य त्वया प्रीतेन चेतसा । वदैतद्विधिवद्देव यदि ते वल्लभास्म्यहम् ॥ ३॥ ईश्वर उवाच । श्रृणु देवि प्रवक्ष्यामि नाख्येयमपि ते ध्रुवम् । एकाक्षरस्य मन्त्रस्य कवचं सर्वकामदम् ॥ ४॥ यस्य स्मरणमात्रेण न विघ्नाः प्रभवन्ति हि । त्रिकालमेककालं वा ये पठन्ति सदा नराः ॥ ५॥ तेषां क्वापि भयं नास्ति सङ्ग्रामे सङ्कटे गिरौ । भूतवेतालरक्षोभिर्ग्रहैश्चापि न बाध्यते ॥ ६॥ इदं कवचमज्ञात्वा यो जपेद् गणनायकम् । न च सिद्धिमाप्नोति मूढो वर्षशतैरपि ॥ ७॥ अघोरो मे यथा मन्त्रो मन्त्राणामुत्तमोत्तमः । तथेदं कवचं देवि दुर्लभं भुवि मानवैः ॥ ८॥ गोपनीयं प्रयत्नेन नाज्येयं यस्य कस्यचित् । तव प्रीत्या महेशानि कवचं कथ्यतेऽद्भुतम् ॥ ९॥ एकाक्षरस्य मन्त्रस्य गणकश्चर्षिरीरितः । त्रिष्टुप् छन्दस्तु विघ्नेशो देवता परिकीर्तिता ॥ १०॥ गँ बीजं शक्तिरोङ्कारः सर्वक

गणेश पूजा

जन पूर्व की दिशा में मुँह करके करें। पूजन सामग्री की सूची पृथक से दी गई है, वहाँ पर देखें। पूजन शुरू करने के पूर्व समस्त पूजन सामग्री अपने आसपास इस तरह जमा लें, जिससे पूजन में अनावश्यक व्यवधान न आए। पूजन में किन-किन सावधानियों को रखना आवश्यक है, इसकी जानकारी भी पृथक से दी गई है, वहाँ से प्राप्त करें। पूजन श्री गणेशजी की प्रतिमा पर किया जाता है। श्री गणेशजी की प्रतिमा न होने पर :- एक सुपारी पर नाड़ा लपेटकर, श्री गणेश की भावना करके, पाटे पर अन्न बिछाकर उस पर स्थापित किया जाता है। सुपारी पर ही संपूर्ण पूजन किया जाता है। श्रीगणेश की मृत्तिका (मिट्टी) की मूर्ति का पूजन कर रहे हों, तो :- उस मूर्ति के स्थान पर स्नान, पंचामृत स्नान कराने के लिए एक सुपारी पर नाड़ा लपेटकर, उस सुपारी को गणेशजी की प्रतिमा के सामने स्थापित कर दें। स्नान, पंचामृत स्नान, अभिषेक इत्यादि कर्म उस सुपारी पर ही किए जाते हैं, मृत्तिका की गणेश प्रतिमा पर नहीं। पूजन प्रारं भ पूजन प्रारंभ करने हेतु शुद्ध घी का दीपक प्रज्ज्वलित करके, इष्ट देवता की दाहिनी दिशा में अक्षत बिछाकर उस पर रखे दें। दीपक प्रज्ज्वलित कर, हाथ धो

नारायणास्त्र

महानारायणास्त्रम् रामानुजवैष्णव सम्प्रदाय के चक्राङ्कित वैष्णवों हेतु ॥ पूर्णशुद्ध सात्विक तपोनिष्ठ वैष्णव ब्राह्मणों द्वारा मात्र प्रयोग ॥ देविदेवि महादेवि करुणाकरपुङ्गवि । कथितान्यागमोक्तानि महास्त्राणि त्वयानघे ॥ १॥ गारुडं वारुणं सार्षं पार्वतं बलिदैवतम् । अघोराख्यं महास्त्रञ्च तथा पाशुपतं शुभम् ॥ २॥ नारायणाख्यमस्त्रं च कथय स्वानुकम्पया । न कथ्यते महामातर्विमुञ्चामि तदा तनुम् ॥ ३॥ देव्युवाच शृणु भैरव यत्नेन कथयामि तवाग्रतः । कस्याग्रे न कथितं मन्त्रं नारायणात्मकम् ॥ ४॥ महाभये महोत्पाते महाविघ्नेषु सङ्कटे । धारणादस्त्रराजस्य भयं सर्वं निवर्तते ॥ ५॥ पूर्वं यद्ब्रह्मणे प्रोक्तं विष्णुना प्रभविष्णुना । सृष्टिकाले महाविघ्नपराभूताय भैरव ॥ ६॥ तदहं सम्प्रवक्ष्यामि महाशत्रुनिबर्हणम् । महाविघ्नोपशमनं महासङ्कटनाशनम् ॥ ७॥ ॐ अस्य श्रीनारायणास्त्रमहामन्त्रस्य आदिसृष्टिकर्ता ब्रह्माऋषिः, जगती छन्दः, त्रिपादविभूतिनायकः श्रीमन्नारायणो देवता, ॐ बीजम्, ह्रीं शक्तिः, ॐ नमःकीलकम्, मम सर्वारिष्टशान्तये सकलाभीष्टसिद्ध्यर्थे च नारायणास्त्रमहामन्त्रपाठे विनियोगः ॥ अथ ध्यानं ध्यायेत्

नारद भक्ति सूत्र

नारदभक्तिसूत्राणि ॥           प्रथमोऽध्यायः           परभक्तिस्वरूपम् अथातो भक्तिं व्याख्यास्यामः । १ - १.०१ सा त्वस्मिन् परप्रेमरूपा । २ - १.०२ अमृतस्वरूपा च । ३ - १.०३ यल्लब्ध्वा पुमान् सिद्धो भवति अमृतो भवति तृप्तो भवति । ४ - १.०४ यत्प्राप्य न किञ्चिद् वाञ्छति न शोचति न द्वेष्टि न रमते नोत्साही भवति । ५ - १.०५ यज्ज्ञात्वा मत्तो भवति स्तब्धो भवति आत्मारामो भवति । ६ - १.०६ सा न कामयमाना निरोधरूपत्वात् । ७ - १.०७ निरोधस्तु लोकवेदव्यापारन्यासः । ८ - १.०८ तस्मिन्ननन्यता तद्विरोधिषूदासीनता च । ९ - १.०९ अन्याश्रयाणां त्यागोनन्यता । १० - १.१० लोकवेदेषु तदनुकूलाचरणं तद्विरोधिषूदासीनता । ११ - १.११ भवतु निश्चयदार्ढ्यादूर्ध्वं शास्त्ररक्षणम् । १२ - १.१२ अन्यथा पातित्यशङ्कया । १३ - १.१३ लोकोऽपि तावदेव भोजनादि व्यापारस्त्वाशरीरधारणावधि । १४ - १.१४ तल्लक्षणानि वाच्यन्ते नानामतभेदात् । १५ - १.१५ पूजादिष्वनुराग इति पाराशर्यः । १६ - १.१६ कथादिष्विति गर्गः । १७ - १.१७ आत्मरत्यविरोधेनेति शाण्डिल्यः । १८ - १.१८ नारदस्तु तदर्पिताखिलाचारता तद्विस्मरणे परमव्याकुलतेति । १९ - १.१९ अस्त

शुकरहस्योपनिषद

शुकरहस्योपनिषत् ॥ प्रज्ञानादिमहावाक्यरहस्यादिकलेवरम् । विकलेवरकैवल्यं त्रिपाद्राममहं भजे ॥ ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥  सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ अथातो रहस्योपनिषदं व्याख्यास्यामो देवर्षयो ब्रह्माणं सम्पूज्य प्रणिपत्य पप्रच्छुर्भगवन्नस्माकं रहस्योपनिषदं ब्रूहीति । सोऽब्रवीत् । पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः । प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ह ॥ १॥ श्रीवेदव्यास उवाच । देवदेव महाप्राज्ञ पाशच्छेददृढव्रत । शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥ २॥ ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः । ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥ ३॥ ईश्वर उवाच । मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते । विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम् ॥ ४॥ श्रीवेदव्यास उवाच । यथा तथा वा भवतु ह्युपनायनकर्मणि । उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥ ५॥ सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर । तव प्रसादसम्पन्नो लभेन्मुक्तिं चतुर्विधाम् ॥ ६॥ तच्छृत्वा व्यासवचनं सर्वदेवर्षिसंसदि । उपदेष्टुं स्थितः शम्भुः साम्बो दिव्

सुदर्शन कवच

ॐ अस्य श्री सुदर्शनकवचमालामन्त्रस्य । श्रीलक्ष्मीनृसिंहः परमात्मा देवता । मम सर्वकार्यसिद्धयर्थे जपे विनियोगः । ॐ क्ष्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ श्रीं मध्यमाभ्यां नमः । ॐ सहस्रार अनामिकाभ्यां नमः । ॐ हुं फट् कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतल-कर पृष्टाभ्यां नमः एवं हृद्यादि । ध्यानम् - उपास्महे नृसिंहाख्यं ब्रह्मावेदान्तगोचरम् । भूयो लालित-संसारच्छेदहेतुं जगद्गुरुम् ॥ मानस-पूजाः लं पृथिव्यात्मकं गन्धं समर्पयामि । हम् आकाशत्मिकं पुष्पं समर्पयामि यं वाय्वात्मकं धूपं आघ्रापयामि । रं वह्न्यात्मकं दीपं दर्शयामि । वं अमृतात्मकं नैवेद्यं निवेदयामि । सं सर्वात्मकं ताम्बूलं समर्पयामि । नमस्करोमि ।  ॐ सुदर्शनाय नमः । ॐ आं ह्रीं क्रों नमो भगवते प्रलयकालमहाज्वालाघोर-वीर-सुदर्शन-नारसिंहाय ॐ महाचक्रराजाय महाबलाय सहस्रकोटिसूर्यप्रकाशाय सहस्रशीर्षाय सहस्राक्षाय सहस्रपादाय संकर्षणत्मने सहस्रदिव्यास्त्र-सहस्रहस्ताय सर्वतोमुखज्वलनज्वालामालावृताय विस्फुलिङ्गस्फोटपरिस्फोटित ब्रह्माण्ड भाण्डाय महापराक्रमाय महोग्रविग्रहाय महावीराय महाविष्णुरूपिणे व्यतीतकालान्

काले बाल चाहिए?

भगमालिनी श्रीविद्या के ललितामागे सहित कई मागोे मे नित्या के रूप में प्रतिष्ठित है .यह योनि नित्या है, प्राचीन भैरवी चक्र (उध्वेनाम्नाय शैवमागे) की योनि शक्ति है .इसे आद्याशक्ति का एक रूप माना गया है .कहीं कहीं इसे ही आद्या कहा गया है .एक ही बात है, जो नामों से ही स्पष्ट है. मंत्र –ऐं भग भुगे ऐं भगिनि ऐं भगोदरी ऐं भग क्लिन्ने ऐं भगावहे ऐं भग गुह्ये ऐं भग योने ऐं भगनिपातिनि ऐं भग सवेवदि ऐं भग वशंकरी ऐं भगरूपे ऐं भग नित्ये ऐं भग क्लिन्ने ऐं भगस्वरूपे सवेभगानि. में ह्यानय ऐं भगक्लिन्ने द्रवे भगं क्लेदय भगं द्रावय भगामोघे भगविच्चे भगं च्छोभय सवेसत्वान भगेश्वरी ऐं भग ब्लूं ऐं भग जं ऐं भग मे ऐं भग व्लूं ऐं भग मो भग क्लिन्ने सवाेनि भगानि में ऐं भग व्लूं ऐं भग हें भग क्लिन्ने सवाेनि भगानि में वशमानये भग ऐं भग ब्लूं ऐं भग हें ऐं भग ब्लूं ऐं भग हें ऐं द्रां द्रीं क्लीं ब्लूं सः भग हर ब्लें भगमालिन्यै . यह २२४ अक्छर का मंत्र है .१३५ और १५२ अक्छर के मंत्र भी हैं . तंत्र बीज मंत्र–ह्रीं क्लीं क्लीं भगेश्वरी क्लीं क्लीं ह्रीं फट् स्वाहा . साधना लाभ — अक्सर स्त्री पुरूष इसे वशीकरण शक्ति पाने के ल

भस्म उपनिषद

🌹🌹🌹🌹 भस्मजाबालोपनिषत् ॥ यत्साम्यज्ञानकालाग्निस्वातिरिक्तास्तिताभ्रमम् । करोति भस्म निःशेषं तद्ब्रह्मैवास्मि केवलम् ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ अथ जाबालो भुसुण्डः कैलासशिखरावासमोंकारस्वरूपिणं महादेवमुमार्धकृतशेखरं सोमसूर्याग्निनयनमनन्तेन्दुरविप्रभं व्याघ्रचर्माम्बरधरं मृगहस्तं भस्मोद्धूलितविग्रहं तिर्यक्त्रिपुण्ड्ररेखाविराजमानभालप्रदेशं स्मितसम्पूर्णपञ्चविध- पञ्चाननं वीरासनारूढमप्रमेयमनाद्यनन्तं निष्कलं निर्गुणं शातं निरञ्जनमनामयं हुंफट्कुर्वाणं शिवनामान्यनिशमुच्चरन्तं हिरण्यबाहुं हिरण्यरूपं हिरण्यवर्णं हिरण्यनिधिमद्वैतं चतुर्थं ब्रह्मविष्णुरुद्रातीतमेकमाशास्यं भगवन्तं शिवं प्रणम्य मुहुर्मुहुरभ्यर्च्य श्रीफलदलैस्तेन भस्मना च नतोत्तमाङ्गः कृताञ्जलिपुटः पप्रच्छाधीहि भगवन्वेदसारमुद्धृत्य त्रिपुण्ड्रविधिं यस्मा

पुरुष सूक्तम्

पुरुषसूक्त ॥ अथ पुरुषसूक्तम् ॥ ॐ तच्छं॒ योरावृ॑णीमहे । गा॒तुं य॒ज्ञाय॑ । गा॒तुं य॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्वं जि॑गातु भेष॒जम् । शन्नो॑ अस्तु द्वि॒पदे᳚ । शं चतु॑ष्पदे । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ । हरिः ॐ । ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । १ पुरु॑ष ए॒वेदꣳ सर्वम्᳚ । यद्भू॒तं यच्च॒ भव्यम्᳚। उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति । २ ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाꣳ॑श्च॒ पूरु॑षः । पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि । ३ त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुनः॑ । ततो॒ विश्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि । ४ तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः । ५ यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ । ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः । ६ स॒प्तास्या॑सन्परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न्पु॑रुषं प॒

कपिलसूत्र-साँख्य योग

साङ्ख्यसूत्रविवरणम् ॥ श्रीकपिलाय नमः । प्रकृतिं पुरुषं नत्वा सांख्यसूत्रे विधीयते । संक्षेपतो विवरणमविवेकापनुत्तये ॥ इह खलु भगवान् कपिलो मुनिरासुरयेऽनुकम्पया पञ्चविंशतितत्त्वान्युपदिश्य सूत्रयामास । अष्टौ प्रकृतय इत्यादि । काः पुनस्ता इत्युच्यन्ते । प्रधानं महानहंकारस्तन्मात्राणि च । प्रधानं प्रकृतिरव्यक्तमव्याकृतं चेत्यनर्थान्तरम् । महान् महत्तत्वं बुद्धिरध्यवसायलक्षणम् । अहंकारोऽभिमानलक्षणो वैकृतिकस्तैजसो भूतादिश्चेति त्रिविधः । तन्मात्राणि तु पञ्च शब्दतन्मात्रमाकाशहेतुः । स्पर्शतन्मात्रं वायुयोनिः । रूपतन्मात्रं तेजोयोनिः । रसतन्मात्रमप्प्रकृतिः । गन्धतन्मात्रं पृथिवीहेतुः । इति पञ्चतन्मात्राणि इत्यष्टौ प्रकृतयः । के पुनर्विकाराः कति । षोडशविकाराः । एकादशेन्द्रियाणि पञ्च महाभूतानि च । तत्र श्रोत्रत्वक्चक्षूरसनघ्राणाख्यानि बुद्धीन्द्रियाणि शब्दस्पर्शरूपरसगन्धालोचनवृत्तीनि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाणि वचनादानविहरणोत्सर्गानन्दवृत्तीनि । ज्ञानक्रियाशक्तिद्वयात्मकं सङ्कल्पविकल्पलक्षणं मन इत्येकादशेन्द्रियाणि । भूतानि चाकाशवायुतेजःसलिलपृथिवीलक्षणानि पञ्चेति