लक्ष्मीनारायण हृदय स्तोत्रम्
॥ श्रीयै नमः ॥ ॥ श्रीमते नारायणाय नमः ॥ अथर्वरहस्ये उत्तर खण्डे ॥ श्री नारायण हृदयम् ॥ ॥ ॐ तत्सत् ॥ ॥ नारायण हृदयम् ॥ हरिः ओम् ॥ अस्य श्रीनारायण-हृदय-स्तोत्र-महामंत्रस्य भार्गव ऋषिः, अनुष्टुप्छन्दः, लक्ष्मीनारायणो देवता, नारायण-प्रीत्यर्थे जपे विनियोगः ॥ ॥ करन्यासः ॥ नारायणः परं ज्योतिरिति अङ्गुष्ठाभ्यां नमः, नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः, नारायणः परो देव इति मध्यमाभ्यां नमः, नारायणः परं धामेति अनामिकाभ्यां नमः, नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः, विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः ॥ ॥ अङ्गन्यासः ॥ नारायणः परं ज्योतिरिति हृदयाय नमः, नारायणः परं ब्रह्मेति शिरसे स्वाहा, नारायणः परो देव इति शिखायै वौषट्, नारायणः परं धामेति कवचाय हुम्, नारायणः परो धर्म इति नेत्राभ्यां वौषट्, विश्वं नारायण इति अस्त्राय फ