Posts

Showing posts from 2022

लक्ष्मी नरसिंह हृदय स्तोत्रम्

 श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम्  अस्य श्रीलक्ष्मीनृसिंहहृदय महामन्त्रस्य प्रह्लाद ऋषिः । श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप्छन्दः । मम ईप्सितार्थसिद्ध्यर्थे पाठे विनियोगः ॥  करन्यासः - ॐ श्रीलक्ष्मीनृसिंहाय अङ्गुष्ठाभ्यां नमः ।  ॐ वज्रनखाय तर्जनीभ्यां नमः ।  ॐ महारूपाय मध्यमाभ्यां नमः ।  ॐ सर्वतोमुखाय अनामिकाभ्यां नमः ।  ॐ भीषणाय कनिष्ठिकाभ्यां नमः ।  ॐ वीराय करतलकरपृष्ठाभ्यां नमः ।  हृदयन्यासः -  ॐ श्रीलक्ष्मीनृसिंहाय हृदयाय नमः ।  ॐ वज्रनखाय शिरसे स्वाहा ।  ॐ महारूपाय शिखायै वषट् ।  ॐ सर्वतोमुखाय कवचाय हुं ।  ॐ भीषणाय नेत्रत्रयाय वौषट् ।  ॐ वीराय अस्त्राय फट् ॥  अथ ध्यानम् -  ॐ सत्यं ज्ञानेन्द्रियसुखं क्षीराम्भोनिधि मध्यगं योगारूढं प्रसन्नास्यं नानाभरणभूषितम् ।  महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनं श्वेताहिवासं श्वेताङ्गं सूर्यचन्द्रादि पार्श्वगम् ॥  श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ॥  अथ मन्त्रः - ॐ नमो भगवते नरसिंहाय देवाय नमः ॥  अथ हृदयस्तोत्रम् ।  श्रीनृसिंहः परम्ब्रह्म श्रीनृसिंहः पर शिवः ।  नृसिंहः परमो विष्णुः नृसिंहः सर्वदेवता ॥ १॥  नृशब्देनोच्यते जीवः सिंहशब्