शिवकवचं अमोघशिवकवचं च श्रीसाम्बासदाशिवकवचस्तोत्रम् श्रीगणेशाय नमः । ॥ अथ शिवकवचम् ॥ विनियोगः । अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः, var वृषभ ऋषिः, अनुष्टुप्छन्दः, श्रीसदाशिवरुद्रो देवता, ह्रीं शक्तिः, वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्, श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥ ॥ ऋष्यादिन्यासः ॥ ॐ ब्रह्मऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः, मुखे । श्रीसदाशिवरुद्रदेवताय नमः हृदि । ह्रीं शक्तये नमः, पादयोः । वं कीलकाय नमः नाभौ । श्री ह्रीं क्लीमिति बीजाय नमः गुह्ये । विनियोगाय नमः, सर्वाङ्गे ॥ ॥ अथ करन्यासः ॥ see another version at the end ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्...