द्वयोपनिषत् । संस्कृत व हिन्दी ।
द्वयोपनिषत् ॐ अआत् : श्री मद्दयोत्पत्ति । बाक्यो द्वितीयः । षट्पदाण्य ष्टादश । पञ्चविंशत्यक्षराणि । पंचदशाक्षरं पूर्वम् दशाक्षरं परम् । पूर्वो नारायणः प्रोक्तोऽनादिसिद्धो मन्त्ररत्नः सदाचार्य मूलं ' । आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः । । मन्त्रज्ञो मन्त्रभक्तश्च सदामन्त्राश्रयः शुचिः ।१ । गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषवित् । एवं लक्षणसंपन्नो गुरुरित्यभिधीयते । २। आचिनोति हि शास्त्रार्थनाचारस्थापनादपि । स्वयं माचरते यस्तु तस्मादाचार्य उच्यते । ३। गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तनिरोधकः । । अन्धकार नरोधित्बाद्गुरुरित्यभिधीयते । ४। गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुदेव परं विद्या गुरुरेव परं धनम् । ५ । गुरुरेव परः कामः गुरुरेव परायणः । यस्मात्तदुपदेष्टासौ तस्माद्गुरुतरो गुरुः। ६। सिद्धिर्भवति । न च पुनरावर्तते न च पुनरावर्तते इति । य एव खेदेत्यपनिषत् । ७। अब श्रीमद्वय की उत्पत्ति बताई जाती है (उसकी प्रधानता बनाई जाती है ।) द...