Posts

लक्ष्मी नरसिंह हृदय स्तोत्रम्

 श्रीलक्ष्मीनृसिंहहृदयस्तोत्रम्  अस्य श्रीलक्ष्मीनृसिंहहृदय महामन्त्रस्य प्रह्लाद ऋषिः । श्रीलक्ष्मीनृसिंहो देवता । अनुष्टुप्छन्दः । मम ईप्सितार्थसिद्ध्यर्थे पाठे विनियोगः ॥  करन्यासः - ॐ श्रीलक्ष्मीनृसिंहाय अङ्गुष्ठाभ्यां नमः ।  ॐ वज्रनखाय तर्जनीभ्यां नमः ।  ॐ महारूपाय मध्यमाभ्यां नमः ।  ॐ सर्वतोमुखाय अनामिकाभ्यां नमः ।  ॐ भीषणाय कनिष्ठिकाभ्यां नमः ।  ॐ वीराय करतलकरपृष्ठाभ्यां नमः ।  हृदयन्यासः -  ॐ श्रीलक्ष्मीनृसिंहाय हृदयाय नमः ।  ॐ वज्रनखाय शिरसे स्वाहा ।  ॐ महारूपाय शिखायै वषट् ।  ॐ सर्वतोमुखाय कवचाय हुं ।  ॐ भीषणाय नेत्रत्रयाय वौषट् ।  ॐ वीराय अस्त्राय फट् ॥  अथ ध्यानम् -  ॐ सत्यं ज्ञानेन्द्रियसुखं क्षीराम्भोनिधि मध्यगं योगारूढं प्रसन्नास्यं नानाभरणभूषितम् ।  महाचक्रं महाविष्णुं त्रिनेत्रं च पिनाकिनं श्वेताहिवासं श्वेताङ्गं सूर्यचन्द्रादि पार्श्वगम् ॥  श्रीनृसिंहं सदा ध्यायेत् कोटिसूर्यसमप्रभम् ॥  अथ मन्त्रः - ॐ नमो भगवते नरसिंहाय देवाय नमः ॥  अथ हृदयस्तोत्रम् ।  श्रीनृसिंहः परम्ब्रह्म श्रीनृसिंहः पर शिवः ।  नृसिंहः परमो विष्णुः नृसिंहः सर्वदेवता ॥ १॥  नृशब्देनोच्यते जीवः सिंहशब्

हरिद्वार कनखल में किराये से कमरा

 हरिद्वार में विद्यार्थियों के लिए व नौकरी करने वाले सज्जन व्यक्तियों के लिए कम रेट पर कमरा किराये से उपलब्ध हैं । कनखल ज्ञान लोक कालोनी विश्वकर्मा घाट के सामने गंगा होटल के पास ।  कमरा हेतु सम्पर्क नंबर । 1.  मोबाइल नंबर 9897703750.  बातचीत केवल सुबह 10  बजे से रात्रि 9 बजे तक। 2.  7909641191 बातचीत केवल रात्रि 9 बजे से 10 बजे तक।

शिव कवचम्

शिवकवचं अमोघशिवकवचं च  श्रीसाम्बासदाशिवकवचस्तोत्रम् श्रीगणेशाय नमः । ॥ अथ शिवकवचम् ॥ विनियोगः । अस्य श्रीशिवकवचस्तोत्रमन्त्रस्य, ब्रह्मा ऋषिः, var वृषभ ऋषिः, अनुष्टुप्छन्दः, श्रीसदाशिवरुद्रो देवता, ह्रीं शक्तिः, वं कीलकम्, श्रीं ह्रीं क्लीं बीजम्, श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥ ॥ ऋष्यादिन्यासः ॥ ॐ ब्रह्मऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः, मुखे । श्रीसदाशिवरुद्रदेवताय नमः हृदि । ह्रीं शक्तये नमः, पादयोः । वं कीलकाय नमः नाभौ । श्री ह्रीं क्लीमिति बीजाय नमः गुह्ये । विनियोगाय नमः, सर्वाङ्गे ॥ ॥ अथ करन्यासः ॥ see another version at the end ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः । ॐ नमो भगवते ज्वलज्ज्वालामालिने ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने

श्रीशिवरक्षास्तोत्रम्

  श्रीशिवरक्षास्तोत्रम् श्री गणेशाय नमः ॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥ श्री सदाशिवो देवता ॥ अनुष्टुप् छन्दः ॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४॥ श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५॥ हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः ॥ उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७॥ जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ॥ चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८॥ एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९॥ ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये

श्रीसदाशिवकवचम्

  सदाशिवकवचम् ।।अथ चतुःसप्ततितमः पटलः श्रीआनन्दभैरव उवाच शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते । सर्वं मे कथितं देवि कवचं न प्रकाशितम् ॥ ७४-१॥ प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सदाशिवमहादेवभावितं सिद्धिदायकम् ॥ ७४-२॥ अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् । सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥ ७४-३॥ श्रीआनन्दभैरवी उवाच श्रूयतां भगवन्नाथ महाकाल कुलार्णव । प्रासादमन्त्रकवचं सदाशिवकुलोदयम् ॥ ७४-४॥ प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः । पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥ ७४-५॥ साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥ ७४-६॥ षडक्षरस्वरूपो मे वदनं तु महेश्वरः । अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥ ७४-७॥ पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥ ७४-८॥ वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ ७४-९॥ द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु । त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ ७४-१०॥ चिन्तामणिर्बीजरूपोऽर्धनारीश्वर
  ॥ अथ श्री रुद्रकवचम् ॥ ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्राम् बीजम् श्रीम् शक्तिः ह्रीम् कीलकम् मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥ ॥ ध्यानम् ॥ शांतम् पद्मासनस्थम् शशिधरमकुटम् पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम् परशुमभयदम् दक्षभागे महन्तम् । नागम् पाशम् च घंटाम् प्रळय हुतवहम् सांकुशम् वामभागे नानालंकारयुक्तम् स्फटिकमणिनिभम् पार्वतीशम् नमामि ॥ ॥ दूर्वास उवाच ॥ प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् । एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम् । रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये । अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा ॥ रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा । शिरोमे ईश्वरः पातु ललाटम् नीललोहितः । नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः । कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः । वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः । श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत् । हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् । नाभिम् कटिम् च वक्षश

श्रीललितोपनिषद

 ☀️।।श्रीललितोपनिषत् ॥☀️ ॥ श्रीललितात्रिपुरसुन्दर्यै नमः ॥ ॐ परमकारणभूता शक्तिः केन नवचक्ररूपो देहः । नवचक्रशक्तिमयं श्रीचक्रम् । पुरुषार्थाः सागराः । देहो नवरत्ने द्वीपः । आधारनवकमुद्राः शक्तयः । त्वगादिसप्तधातुभिरनेकैः संयुक्ताः सङ्कल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् ॥ रसनया भासमाना मधुराम्लतिक्तकटुकषायलवणरसाः षड्रसाः । क्रियाशक्तिः पीठं कुण्डलिनी ज्ञानशक्तिरहमिच्छाशक्तिः । महात्रिपुरसुन्दरी ज्ञाता होता । ज्ञानमर्घ्यं ज्ञेयं हविः ज्ञातृज्ञानज्ञेयानां नमोभेदभावनं श्रीचक्रपूजनम् ॥ नियतिसहितशृङ्गारादयो नवरसाः । अणिमादयः कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्यादयोऽष्टशक्तयः । आधारनवकमुद्रा शक्तयः । पृथ्व्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वा- प्राणवाक्पाणिपादपायूपस्थमनोविकाराः षोडशशक्तयः । वचनादानगमनविसर्गानन्दादानोपादानोपेक्षा- बुद्धयोऽनङ्गकुसुमादिशक्तयोऽष्टौ । अलम्बुषाकुहूविश्वोदरीवरुणाहस्तिजिह्वायशस्विनी- गान्धारीपूषासरस्वतीडापिङ्गलासुषुम्ना चेति चतुर्दशनाडयः सर्वसङ्क्षोभिण्यादिचतुर्दशारदेवताः ॥ प्राणापानव्यानोदानसमाननागकूर्मकृकलदेवदत्तधनञ्जया दशवायवः सर्वसिद्धिप्रदादि बहिर

श्रद्धा भक्ति आश्रम हरिद्वार

 हरिद्वार  श्रद्धा भक्ति आश्रम ज्ञान लोक कालोनी विश्वकर्मा घाट के सामने कनखल हरिद्वार 7909641191 श्रद्धा भक्ति आश्रम https://maps.app.goo.gl/AWdEPebpz5S6N4Pf6 जय श्री राधे  हरिद्वार में रूकने, संत सेवा व गौसेवा के लिए संपर्क करें । श्रद्धा भक्ति आश्रम https://maps.app.goo.gl/AWdEPebpz5S6N4Pf6

मो सम दीन ----सभी दोहे श्रेष्ठ स्तुति

।।दोहा स्तुति ।। मो सम दीन न दीन हित , तुम समान रघुवीर ।  अस विचारि रघुवंश मनि हरहु विषम भवभीर ।।1  कामहि नारि पियारि जिमि लोभिहि प्रिय जिमि दाम ।  तिमि रघुनाथ निरन्तर प्रिय लागहु मोहि राम ।।2  प्रनतपाल रघुवंशमनि करुनासिन्धु खरारि ।  गये शरण प्रभु राखिहहिं सब अपराध विसारि ।।3  श्रवन सुजस सुनि आयउँ प्रभु भंजन भव भीर ।  त्राहि त्राहि आरति हरन शरण सुखद रघुबीर ।।4  अरथ न धरम न काम रुचि गति न चहउँ निरवान ।  जनम जनम रति राम पद यह वरदानु न आन ।।5  बार - बार बर मागउँ हरषि देहु श्री रंग ।  पद सरोज अनपायनी भगति सदा सतसंग ।।6  बरनि उमापति राम गुन हरषि गये कैलास ।  तब प्रभु कपिन दिवाए सबविधि सुखप्रद वास ।।7  एक मंद मैं मोहबस कुटिल हृदय अग्यान ।  पुनि प्रभु मोहि बिसारेउ दीनबन्धु भगवान ।।8  बिनती करि मुनि नाव सिर कह कर जोरि बहोरि ।  चरन सरोरुह नाथ जनि कबहु तजै मति मोरि ।।9  नहिं विद्या नहिं बाहु बल नहिं खर्चन कछु दाम ।  मोसे पतित पतंग के तुम पति राखो राम ।।10 एक छत्र एक मुकुट मनि सब वर्णन परि जोऊ ।  तुलसी रघुवर नाम के बरन बिराजत दोऊ ।।11  कोटि कल्प काशी बसै , मथुरा कल्प निवास ।  एक निमिष सरजू बसै तु

लक्ष्मीनारायण हृदय स्तोत्रम्

                          ॥ श्रीयै नमः ॥               ॥ श्रीमते नारायणाय नमः ॥                  अथर्वरहस्ये उत्तर खण्डे                ॥ श्री नारायण हृदयम्  ॥                          ॥ ॐ तत्सत् ॥                             ॥ नारायण हृदयम् ॥ हरिः ओम् ॥ अस्य श्रीनारायण-हृदय-स्तोत्र-महामंत्रस्य भार्गव ऋषिः, अनुष्टुप्छन्दः, लक्ष्मीनारायणो देवता, नारायण-प्रीत्यर्थे जपे विनियोगः ॥                      ॥ करन्यासः ॥          नारायणः परं ज्योतिरिति अङ्गुष्ठाभ्यां नमः,          नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः,          नारायणः परो देव इति मध्यमाभ्यां नमः,          नारायणः परं धामेति अनामिकाभ्यां नमः,          नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः,          विश्वं नारायण इति करतलकरपृष्ठाभ्यां नमः ॥                    ॥ अङ्गन्यासः ॥          नारायणः परं ज्योतिरिति हृदयाय नमः,          नारायणः परं ब्रह्मेति शिरसे स्वाहा,          नारायणः परो देव इति शिखायै वौषट्,          नारायणः परं धामेति कवचाय हुम्,          नारायणः परो धर्म इति नेत्राभ्यां वौषट्,          विश्वं नारायण इति अस्त्राय फ